पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६५
चतुर्थः सर्गः।

नामैकदेशग्रहणेऽपि मातु बभूव कृष्णो बहुमानपात्रम् ॥ १६ ॥ विश्वानीति । विश्वाधिकशक्तिः विश्वस्माद्ब्रह्मादिप्रपञ्चात् अधिका शक्तिर्यस्य सः । एकः सहायनिरपेक्ष एव । विश्वानि कृत्स्नानि। नामानि अभिधानानि । रूपाणि अभिधयानि च। निर्मिमाणः ‘अनेन जीवेनामनानुप्रविश्य नामरूपे व्याकरवाणि' इत्युपनिषदुक्तप्रक्रियया प्रतिसर्ग सृजन् । कृष्णः । मातुः यशोदायाः । नामैकदेशग्रहणेऽपि शैशवात्साकल्येन वक्तुमशक्त्यभिनयेन नामैकदेशोच्चारणेऽपि । बहुमानपात्र बभूव अहो मातुर्नाम गृह्णातीति वात्सल्यवतां बन्धूनां श्लाघाविषयोऽभूदित्यर्थः । अत्र विभावनाविशेषोक्त्योः सदेहसङ्करः । कारणाभावे कार्योत्पत्तिर्विभावना । कारणसामग्र्ये कार्यानुत्पत्तिरूपा विशेषोक्तिः । तत्र बहुमानकारणाभावो बहुमानकारणविरुद्धविश्वाधिकशक्तित्वाभिधानमुखेन निबद्ध इति बहुमानकारणाभावेऽपि बहुमानोत्पत्तिरूपा विभावना विवक्षिता, उत अबहुमानकारणसामय्येऽपि तदनुत्पत्तिरूपा विशेषोक्तिस्तद्विरुद्धबहुमानोत्पत्तिमुखेन विवक्षितेति निर्णायकाभावात्सदेह. सकरः ॥ १६ ॥ . तरङ्गितानुश्रवगन्धमादौ तस्याद्भुतं संलपितं सखीभिः । वर्णस्वरादिव्यवसायभूना शिक्षाविदा शिक्षणमय्यमासीत् ॥ १७ ॥ तरंगितेति । तस्य कृष्णस्य । आदौ प्रथमसंलापसमय एव ।