सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६४
यादवाभ्युदये

विवक्षिता, तैः षड्भिविना चक्रमणासभवात् । अत एव न प्राण्यङ्गलक्षण एकवद्भावः, 'अधिकरणैतावत्वे च' इति वृत्निपदार्थसख्यावित'क्षायां निषेधात् । अङ्गणे अजिरे । चक्रमणप्रवृत्ते चक्रमणमितस्ततः सचारः कमिधातोः 'नित्यं कौटिल्ये गतौ' इति यडन्तात् ल्युट्। तत्र प्रवृत्ते सति । धरित्री धरणी देवस्य महिषी । सापत्रपा परेभ्यो लज्जायुक्ता सती। सान्द्ररजश्छलेन गाढाङ्गणर जोव्याजेन । प्रायः नूनम् । परिषखजे आलिलिङ्ग । पांसुमये गृहाङ्गणे चक्रमणाद्धसरभाव एव धरियालिङ्गनत्वेनोत्प्रेक्ष्यते । तत्र च सान्द्ररजश्छलेनेत्यपह्नुतिरिति सापहवोत्प्रेक्षालङ्कारः ॥ १४ ॥ निर्व्याजमन्दस्मितदर्शनीयं नीराजितं कुण्डलरत्नभासा। नन्दस्तदानीं न जगाम तृप्ति मुग्धाक्षरं प्रेक्ष्य मुखं तदीयम् ॥ १५॥ निर्व्याजेति । नन्दः । तदानी कृष्णस्य बाल्यसमये । निर्व्याजेन निरुपाधिकेन स्वभावसिद्धेन मन्दस्मितेन दर्शनीयम् । 'दर्शनीय तदानन्दसान्द्रो यत्र मनोलयः' इति यादवः । कुण्डलरत्नभासा । नीराजित कृतनीराजन परितो विद्योतितमिति यावत् । मुग्धानि शैशवकलानि अक्षराणि यस्य तत् । तदीय तस्य कृष्णस्येदम् । मुखम् । प्रेक्ष्य । तृप्ति न जगाम ॥ १५॥ विश्वानि विश्वाधिकशक्तिरेको नामानि रूपाणि च निर्मिमाणः ।