पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६३
चतुर्थः सर्गः।

भिधागो दैत्यः । जगन्ति । अभीक्ष्ण भृशम् । सक्षोभयामास अत्युप्रेण दळनपतनघोषेण भीतान्यकरोत् । 'कश्चिद्दनोः सुतो वीरः कृष्णस्य वधकाक्षया। नन्दस्य प्रियतामायाच्छाकट वपुरुद्वहन् ॥' इति नन्दशकटस्यासुररूपत्वमुक्त हरिवशे ॥ १२ ॥ यदृच्छयोक्षिप्तपदे कुमारे शैलोपलक्ष्ये शकटे निरस्ते । सरोजगभॊपमसौकुमार्य पस्पर्श तत्पादतलं यशोदा ॥ १३ ॥ यदृच्छयेति । कुमारे । यदृच्छया म्वेच्छया । 'स्वेच्छा यदृच्छा स्वच्छन्दस्वैरिता चेरिता. समाः' इति केशवः । उत्क्षिप्तपदे ऊवं क्षिप्तचरणे । शैलोपलक्ष्ये पर्वतवदृश्य तन्महति । शकटे । निरस्ते सति । यशोदा । सरोजगभॊपमसौकुमार्य अरविन्दाभ्यन्तरमार्दवम् । सरोजगभशब्देन योग्यतावशात्तत्मौकुमार्य लक्षणीयम् । तत्पादतल कुमारस्य चरणयोरध प्रदेशम् । पस्पर्श, शकटताडनाभिहतिवेदनाशङ्कयेति भावः । 'तल स्वरूपाधरयोः' इति विश्वः ॥ १३ ॥ अथाङ्गणे जानुपदाग्रहस्तै श्चक्रायुधे चङ्क्रमणप्रवृत्ते। प्रायो धरित्री परिषस्वजे तं सापत्रपा सान्द्ररजश्छलेन ॥ १४ ॥ अथेति । अथ अतिशैशवापगमानन्तरम् । चक्रायुधे कृष्णे । जानुपदाग्रहस्तैः जानुनी च पदाने च हस्तौ च तैः। अवयवानां षट्त्वसंख्यात्र