पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६०
यादवाभ्युदये

निर्हादितेति निस्पूर्वात् 'हाद अव्यक्ते शब्द' इति धातोः ण्यन्तात्कमणि क्तः। गतासुं घोषणानन्तरमुत्क्रान्तप्राणाम् । गृहोपमाक्षी स्वयं विकताकारतया गतासुतया च गुहानिभलोचनाम् । भीमाकृति भयकररूपाम् । अत एव, अन्यां भैमरथीमिव स्थिताम् । 'सप्तत्याः सप्तमे वर्षे सप्तमे मासि सप्तमी । रात्रिीमरथी नाम सर्वप्राणिभयङ्करी ॥' इत्युक्तलक्षणां प्राणिनां गण्डभूतरात्रिमिव स्थिताम् । निशाचरीम् । ऐक्षन्त अपश्यन् ।। परश्वधैस्तत्क्षणशातितैस्तां विच्छिद्य विन्ध्याचलसानुकल्पाम् । अनःप्रवृत्या बहिराशु निन्युः क्रव्यालिं प्राज्यमिव क्षिपन्तः ।। ८॥ . परश्वधैरिति ॥ विन्ध्याचलसानुकल्पां विन्ध्यपर्वतप्रस्थसदृशी तथातिशयितमहाकायाम् । 'स्नुः प्रस्थः सानुरस्त्रियाम्' इत्यमरः । तां पूतनाम् । तत्क्षणशातितैः तत्क्षणे उत्तजितैः, तदङ्गानामतिकठिनलादिति भावः । परश्वधैः परशुभिः । विच्छिद्य खण्डयित्वा । अनःप्रवृत्या शकटस्य प्रवर्तनेन । आशु शीघ्रम् । घोषात् बहिः । प्राज्यं बहुलम् । क्रव्याद्वलिं कव्यादः मांसभक्षा: गृध्रगोमायुप्रभृतय. । 'आममांसभक्षः ऋव्यात्' इति काशिका । तेभ्यः बलि उपहारम् । 'चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः' इति समासः । क्षिपन्तः प्रयच्छन्त इव । निन्युः नयन्ति स्म । 'वृतुधातुरन्त वितण्यन्ततया सकर्मकोऽपि ' इति प्रवृत्तिशब्दस्य प्रवर्तनवाचिता ॥ ८॥ ग्रहादिदोषानपहन्तुकामा गोप्तः सतां गोपतयः समेताः।