पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६१
चतुर्थः सर्गः।

सुवर्णसूत्रग्रथिताभिरामां पञ्चायुधीमाभरणं बबन्धुः ॥ ९ ॥ ग्रहादीति । सतां साधूनाम् । गो'तुः रक्षकस्य भगवतः । प्रहादिदोषान् बालग्रहमातलिप्रभृतीन् शिशुदोषान् । अपहन्तुकामा: अपनेतुं कामयमानाः । 'लुम्पेदवश्यमः कृत्ये तुकाममनसोरपि' इति समासे मलोपः । मयूरव्यसकादित्वात्समासः । समेताः मिलिताः । गोपतयः । सुवर्णसूत्रग्रथिताभिरामां सुवर्णस्य सूत्रमिति सबन्धसामान्ये षष्ठी, सुवणमय सूत्रमिति यावत् , तेन ग्रथितं ग्रथन तेन अभिरामा मनोज्ञाम् । पञ्चायुधी पञ्चानां शङ्खचक्रादीनां भगवदायुधानां समाहारम् । आभरण बबन्धुः । पञ्चायुधाभरणधारण बालानां दोषनिवारणार्थम् , “ जातस्य पञ्चमदिने शुभदे मुहूर्ते पञ्चायुधाभरणधारणमिष्टमाहुः” इति वचनादित्याहुः ॥ ९॥ रम्याणि रत्नानि रथाङ्गपाणे राकल्पतां नूनमवाप्नुवन्ति । तदङ्गसंस्पर्शरसात्प्रकामं रोमाञ्चितान्यंशुगणैरभूवन् ॥ १० ॥ रम्याणीति । रथाङ्ग चक्र पाणौ यस्य तस्य रथाङ्गपाणे. । 'प्रहरणार्थेभ्यः परे निष्ठांसप्तम्यो' इति परनिपातः। आभरणतां आभरणत्वम् । आप्नुवन्ति वहमानानि । रम्याणि । रत्नानि । नूनम् । तदङ्गसस्पर्शरसात् भगवदङ्गसंस्पर्शन यत्सुख तस्मात् । अशुगणैः किरणसमूहेः । प्रकामम् । रोमाञ्चित्सानि सजातरोमाञ्चानि । अभूवन् । अत्रांशुगणेषु रोमाञ्चत्वा. रोपाद्रपकं तदङ्गसंस्पर्शरसादिति हेतूत्प्रेक्षा चेति संकरः ॥ १० ॥ 11 THE KUPPUSWAMI SASTRA, RESEARCH INSTITUTE MADRAS.A