पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५९
चतुर्थः सर्गः।

श्रुत्वा । भीता सती । ससंभ्रमावेगं संभ्रमो बहिस्त्वरा आवेगः तद्धतुर. निष्टशब्दश्रवणकृतो मनोविकारः तदुभयसहितं यथा तथा। उपेत्य प्राप्य । आगमानां वेदानाम् । दुर्ग्रहं दुरवगाहम् । तम् । अग्रहीत् तदात् गृही. तवतीत्यर्थः ॥ ५॥ नन्दश्च तीत्रेण भयेन सद्यः समेत्य पश्यन्ननघं कुमारम् । तेनैव तस्य त्रिजगन्नियन्तुः पायुक्त रक्षां परमार्थवेदी ॥ ६ ॥ नन्दश्चेति । परमार्थवेदी भगवानेव सर्वस्व रक्षक इति परममर्थमवगच्छन् । नन्दश्च । तीत्रेण उत्कटेन । भयेन । मद्यः तदैव । समेत्य । अनघं पूर्ववदेव कुशलिनम् । कुमारम् । पश्यन्सन् । त्रिजगनियन्तुः त्रिलोकनायकस्य । तस्य । तेनैव रक्षा प्रायुक्त । · रक्षतु त्वामशेषाणां भूतानां प्रभतो हरिः । यस्य नाभिसमुद्भूतपङ्कजादभवजगत्' इत्यादिना भगवन्तमेव रक्षकमनुसन्धाय रक्षां प्रयुक्तवानिल्यर्थः । 'उभयप्राप्ती कर्मणि' इति षष्ठीनियमात्तेनेति कर्तरि तृतीया ॥ ॥ गोपाश्च संभूय गुहोपमाक्षी स्वघोषनिर्हादितविश्वघोषाम् । गतासुमैक्षन्त निशाचरी तां भीमाकृति भीमरथीमिवान्यां ॥ ७ ॥ गोपाश्चेति । गोपाश्च । संभूय मिलित्वा । स्वघोषेण स्वशब्देन निहोदितः सशब्दीकृतः विश्वः कृत्स्नः घोषः आभीरप्रामः यया ताम् ।