पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५५
तृतीयः सर्गः।

नन्दसमनि नवेन्दुसंनिभो वासमेत्य वसुदेवनन्दनौ। वृद्धिमापतुरनेहसा स्वयं स्वादुभोगजननी सुपर्वणाम् ।। ६८ ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेकटनाथस्व वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये श्रीकृष्णस्य नन्दगृहप्राप्तिवर्णनं नाम तृतीयः सर्गः ॥ ' नन्देति। नवेन्दुनिभी। वसुदेवनन्दनी रामकृष्णो । नन्दसनि नन्दगृहे । वाम एत्य वास प्राप्य । अनेहमा कालेन । स्वयमेव । सुपर्वणां देवानाम् । स्वादुभोगजननी कसादिवधद्वारा मधुरस्य स्वस्वपदभोगस्य जननीम् । वृद्धिम् । आपतु. । यथा चन्द्रः ‘प्रथमां पिबते वह्निः' इत्यादिक्रमाद्देवानां स्वादुभोगजननी वृद्धि प्राप्नोति तद्वदित्यर्थः । कृष्णस्य वृद्धौ सत्यामनायासेन कसादिवधाद्देवानां भोगसपा तारत्याशयेन तदृद्धि. स्वयमेव भोगजननीत्युक्तम् । रथोद्धता वृत्तमेनन ॥ ८ ॥ इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीनिवजिद्याजिश्रीरङ्गराजाचरिवरसूनुना अप्पा यदाक्षितेन विरचिते यादवाभ्युदयव्याख्याने तृतीयः सर्गः ॥ श्रीमते वेदान्तगुरवे नमः ।