पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

चतुर्थः सर्गः। मनीषितं कैतवमानुषस्य श्रुत्वा भयक्रोधपरिप्लुतात्मा। कंसश्चिरं प्राग्भवकालनेमि श्चिन्तार्णवे मग्न इवावतस्थे ॥ १॥ मनीषितमिति। कैतवमानुषस्य कपटेन मानुषस्य श्रीकृष्णस्य । मनीषित खवधाभिप्राया। श्रुत्वा नन्दतनयामुखादाकर्ण्य । भयक्रोधपरिप्लुतात्मा भयक्रोधयो कृतप्लवनान्तःकरणः । प्राग्भवकालनेमिः पूर्वजन्मनि कालनेमिारति प्रसिद्धो भगवता हतोऽभूद्यः सः । कंसः । चिरम् । चिन्तार्णवे मग्न इवावतस्थे, उपस्थितविपत्प्रतीकारचिन्तास्तिमितश्विरमवतस्थे इत्यर्थः । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । अपारकरुणासमुद्राद्भगवतः किमिति भेतव्यम् । शरणागतिमात्रेण तत्प्रसादनसभवादित्यत उक्त क्रोधेति । क्रोधानमित्त पूर्वजन्मवासनति सूचितं प्राग्भवकालनेमिरिति । चिन्तार्णवे मग्न इवावतस्थ इत्यत्र रूपकसंकीर्णोत्प्रे. क्षालङ्कारः ॥ १ ॥ स दुर्दमानासुरसत्त्व भेदा नेता समाहूय नृशंसचेताः। प्रस्थापयामास परैरधृष्यं नन्दास्पदं नाथविहारगुप्तम ॥२॥