पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५४
यादवाभ्युदये

निधिमनन्तमिव स्वयमुत्थितं निरवधि निजभागमिवोदितम् । व्रजभुवः प्रतिलभ्य रमापति जहसुरेन्द्रमसारतरं पदम् ॥ ६६ ॥ निधिमिति । व्रजभुवः व्रजप्रभवा गोपाः । स्वय उत्थितं स्वयमेबोद्गतम् । अनन्तम् अन्तरहितम् । निधिं शेवधिमिव स्थितम् । उदितं मूर्ति परिगृह्य आविर्भूतम् । निरवधि निःसीमम् । निजभाग आत्मीयभाग्यमिव स्थितम् । ‘भाग्यैकदेशयोर्भागः' इति रुद्रनिघण्टुः । 'भागो भाग्ये रूपकार्धे चतुर्थीशैकदेशयोः' इति रत्नमाला च । रमापति कृष्णम् । प्रतिलभ्य प्राप्य । आसारतर अत्यर्थ नि सारम् । ऐन्द्र पद स्वाराज्यम । जहसुः हसन्ति स्म । ऐन्द्रपदादाधिकं सुखमन्वभवन्नित्यर्थः ॥ पुत्रं प्रसूय तपसा पुरुषं पुराणं कालं चिरं विधिवशात्कृतविप्रकर्षों । शङ्काकलङ्कितधियापि दम्पती तो तद्वैभवस्मरणशान्तरुजावभूताम् ॥ ६७ ॥ पुत्रमिति । पुराण पुरुष नारायणम् । तपसा । पुत्रम् । प्रसूय । चिर काल बहुकालम् । विधिवशान् दैववशात् । कृतविप्रकों कृतपुत्रविप्रकर्षों । दम्पती देवकीवसुदेवो । शङ्काकलड्कितधियावपि शङ्कया कसात्रासेन कलुषितधियावपि । 'शङ्कावितर्कभययोः' इति वैजयन्ती । द्वैभवस्मरणेन तस्य स्वपुत्रस्य प्रभावस्नरणेन । शान्तरुजो अपगतापतापी । अभूताम् । 'स्त्री रुगुजा चोपतापरोगव्याधिगदामयाः' इत्यमरः ॥ ६७ ॥