पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५३
तृतीयः सर्गः।

संभवे अतन्द्रिता सा स्वयमेव वृक्षकान्घटस्तनी प्रस्नवनेरवर्धयत् । गुहोऽपि येषां प्रथमात्मजन्मनां न पुत्रवात्सल्यमपाकरिष्यति ॥ इति श्लोके समभिव्याहतवृक्षसवर्धनात्पराचीनत्वमात्रेण नापाकरिष्यतीति भविष्यत्प्रयोगः ।। सुरमहीसुरतोषणमादरा नवमुपादित नन्द उदारधीः। तरलगोपगणागमसंकुलं तनयजन्ममहोत्सवमद्भुतम् ॥ ६४॥ सुरेति। उदारधीः महायशाः । नन्दः । सुरमहीसुरतोषण देवब्राह्मणानां तोषणम । तरलानां इतस्ततः सभ्रमतां गोपगणानां आगमेन आगमनेन सकुलम् । अद्भुत आश्चर्यभूतम् । नव इतः प्रागपुत्रतया इदप्रथमम् । तनयजन्ममहोत्सव पुत्रजन्मनि कर्तव्यं महोत्सवम् । आदगत् । उपादित उपादत्ते स्म अकरोदित्यर्थः ॥ ६४ ॥ अधिचकार वदान्यमणेः श्रियं व्यधित कल्पतरोरनुकल्पनाम् । अजनयच्च मुतप्रसवोत्सवे महति मेघविकत्थनमोघताम् ॥ ६५ ॥ अधिचकारेति । महति । सुतप्रसवोत्सवे पुत्रजन्मोत्सवे । वदान्यमणे: बहुप्रदस्य मणेः चिन्तारत्नस्य । 'स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे' इत्यमरः । श्रिय शोभाम् । अधिचकार अधिकृतवान् जग्राहेत्यर्थः । कल्पतरोः अनुकल्पताम् । 'मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु तनोऽधमः' इत्यमरः। व्यधित विधत्ते स्म । मेघविकत्थनमोघतां मेघश्लाघाया व्यर्थताम् । अजनयच्च । चिन्तामणिकल्पतरुकालमेघेभ्योऽप्यधिकमर्थिभ्यः प्रादादित्यर्थः ।