पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५२
यादवाभ्युदये

अनघवत्समनाकुलधेनुकं प्रचुरदुग्धमचोरभयोद्भवम् । ब्रजमनामयविश्वजनं विभुः कृतयुगास्पदकल्पमकल्पयत् ॥ ६२ ॥ अनघेति । विभुः विष्णुः । व्रज गोकुलम् । अनघवत्सं व्याध्यादिदुःखारहितवत्सम् । अनाकुलधेनुक तृणाद्यर्थमसभ्रान्तधेनुकम् । प्रचुरदुग्धं बहुक्षीरम् । अचोरभयोद्भव चोरभयोत्पत्तिरहितम् । अनामयविश्वजनं व्याधिरहितसमस्तजनम् । अत एव, कृतयुगास्पदकल्प कृतयुगवासस्थानतुल्यम् । अकल्पयत । कृतवान् ॥ ६२ ॥ अजनि गोपगृहेषु मनोरमै रमितकान्तिभिरप्सरसां गणैः। यदनुभूतिरसेन समेष्यतः शरणयादवशैशवयौवने ॥ ६३ ॥ अजनीति। मनोरमैः सुन्दरः । अमितकान्तिभिः अपरिमितला. वण्यैः । अप्सरसां स्वर्वेश्यानाम । गणे. । गोपानां नन्दव्रजवासिनां गृहेषु । अनि जातम् । भावे लुद्द । यदनुभूतिरसेन यासामासरसामनुभवजन्यन सुखेन सह । शरणयादवस्य जगता रक्षितुर्यादवस्य कृष्णस्य । ‘शरण गृहरक्षित्रोः' इत्यमरः । शैशवयौवने । समेष्यतः सगते भविष्यतः, तस्य शैशव ताभिः सह बालक्रीडानुभवजन्यसुखेन तस्य यौवन तत्सभोगसुखेन च समेष्यतीत्यर्थः । अत्र शैशवयौवनयोस्तत्सगमस्य काव्यनिर्माणात्प्राचीनत्वेऽपीह श्लोके समभिव्याहतात्, अप्सरोजननात्पराचीनत्वात्तदपेक्षया समेष्यत इति भविष्यत्प्रयोगः । यथा कुमार.