पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५१
तृतीयः सर्गः।

वसत् तगृहमावसति स्म । देवकी च । स्मृतिं गतेन स्मृतिगोचरेण । सुतेन । सजीविता सप्राणा सती। दिनशतानि दिनानां शतानि बहूनि शतानि । निनाय अतिवाहयांबभूव ॥ ५९ ॥ विगतकन्यकया च यशोदया नियतिसंभृतनिर्भरनिद्रया। चिरसमागतजागरयान्तिके हरिरपत्यमदृश्यत धन्यया ॥६०॥ विगतेति । विगतकन्यकया अपगतकन्यकया । नियतिसभृतनिभर निद्रया दैवसपादितगाढनिद्रया । चिरसमागतजागरया चिरकालानन्तरमुपगतप्रबोधया । धन्यया पुण्यवत्या । यशोदया नन्दपल्या । अन्तिके समीपे । अपत्य हरिः । अदृश्यत दृश्यते स्म ॥ ६० ।। यदवबुद्धनिराकुलनीतिभि मुनिगणैरधुनापि विमृग्यते । तदिदमागममालिविभूषणं विधिवशादभवद्रजभूषणम् ।। ६१ ॥ यदिति । अवबुद्धनिराकुलमीतिभिः अवगतप्रतिष्ठितवेदार्थनिश्चायकन्यायैः । मुनिगणैः । अधुना इदानीमपि । यत् । विमृग्यते वेदान्तेध्वन्विष्यते । तदिदम् । आगममौलिविभूषण श्रुतिशिरसां प्रतिपाद्यत्वेनालकारभूतं परं ब्रह्म । विधिवशात् नन्दादिभाग्यायत्ततया । 'दैवं दिष्ट भागधेयं भाग्य स्त्री नियतिविधिः' इत्यमर. । व्रजस्य गोकुलस्य विभूषणम् । अभवत् ॥ ६१ ॥