पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
यादवाभ्युदये

रिति । एकमुखी एकस्मिन्कृत्ये मुख प्रारम्भो यस्याः सा, सदसद्वा फल दातुं प्रारब्धति यावत् । नियतिः दैवम् । 'नियतिनियमे देवे' इति विश्वः । कृतधिया बुद्धिमतापि । दुरतिक्रमा अतिक्रमितुमशक्या। आविलचेतसा किमु कलुषचेतसा दुरतिक्रमेति किमु वक्तव्यमित्यर्थः ॥ ५५ ॥ परिबभूव चुकोप विसिष्मिये परिजहास हरि प्रजगर्न च । परिणतेन भवान्तरवासना ग्रहगुणेन भजन्भवितव्यताम् ।। ५८ ॥ परिबभूवेति । परिणतेन परिपक्केन । भवान्तरवासनाग्रहगुणेन जन्मान्तरवासनामयाग्रहरूपेण गुणन, पूर्वजन्मवैरवासनानुबन्धेनेति यावत् । भवितव्यतां दुष्कर्मविपाकम् । भजन् । 'विपाको भवितव्यता' इति हलायुधः । परिबभूव हरि चेतसा फल्गूचकार । चुकोप तस्मै कुप्यति स्म । विसिम्मिये देवकीवसुदेवाविह तयोः पुत्र उत्पद्य नन्दकुले वसतीति विस्मयते स्म । हरि परिजहास मय्यप्यकारमिच्छाति स्वबलावलेपात्परिहसति स्म । प्रजगर्ज च शौर्योन्मादात्प्रगर्जति स्म ॥ ५८ ॥ कचन धामनि कंसनिवेदिते सभयमानकदुन्दुभिरावसत् । स्मृतिगतेन सुतेन सजीविता दिनशतानि निनाय च देवकी ।। ५९ ।। वचनेति । आनकदुन्दुभिः वसुदेवः । क्वचन धामनि कस्मिश्चिद्हे । कसनिवेदिते कंसेन निवेदिते सति । सभयं भयसहितं यथा तथा। आ