पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४९
तृतीयः सर्गः।

रपरिदेवनशब्दया । दयितया देवक्या सह । अमोचयत् निरोधान्मोचयति स्म, अन्यत्रावतीर्णे परिपन्थिनि तनिरोध विफल मत्वेति भावः ॥ किमपि चिन्तितमागतमन्यथा किमिदमित्यवशादुपजातया। विषविदूषितयेव मनीषया मुहुरदूयत मोहविचेष्टितः ॥ ५६ ॥ किमपीति । मोहविचेष्टितः मोहेन विचेष्टितः चेष्टां कारितः मोहप्रयुक्तसकलव्यापारः । चेष्टतय॑न्तात्कर्मणि क्तः । स कंस: । किमपि किचित्कृत्यम् । चिन्तित देवकीवसुदेवयोनिरुद्धयोस्तीया गर्भा उत्पत्त्य - नन्तरमेव हन्तु शक्यन्त इति चिन्तितम् । अन्यथा आगत इदानी नन्दकुले वसुदेवसुतो वसतीति प्रकारान्तर प्राप्तम् । इद किम् । इति अव - मात् अनायत्तत्वेन। उपजातया । विषविदूषितयव गरलदूषितयेव तापप्रदया । मनीषया बुद्ध्या । मुहुः अद्यत इत्थ विविन्त्य पुनः पुनः पर्यनप्यतेत्यर्थः ॥ ६॥ अविषये विपदामसुरान्तके पुनरियेष निकारपरम्पराम् । नियतिरेकमुखी दुरतिक्रमा कृतधिया किमुताविलचेतसा ॥ ५७ ॥ अविषयेति । विपदाम । अविषये अगोचरे । असुरान्तके कृष्णे। पुनः । निकारपरम्परां अपकारपरम्पराम् । इयेष। 'निकारो विप्रकारः स्यात् ' इत्यमरः । ननु तादृशे कथमपकर्तुमैच्छदित्यत आह-नियति