पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४८
यादवाभ्युदये

तव नाशयिता । इति । दर उदीर्य अल्प सारांशमुक्त्या । 'दरोऽत्री शसभीगर्तेष्वल्पार्थे त्वव्यय दरम्' इति यादवः । यथेप्सितम् ईप्सितमनतिक्रम्य ईसित देशम् । जगाम । स्वरूपप्रकारपरामर्शितया अयंमसावित्यनयोर्न पौनरुक्त्यम् ॥ ५३॥ मधुहिरण्यनिभो मधुरापति दिनहुताशनदीनदशां गतः । श्वसितजल्पितवेपितहुंकृतै रतिमायतभीतिरसूचयत् ।। ५४ ॥ मध्विति । मधुहिरण्यनिभः मधोहिरण्यस्य च असुरस्य तुल्यः । मधुरापतिः कमः । दिनहुताशनस्य दीनां क्षीणां दशां निस्तेजस्कत्वरूपाम् । गतः तद्वचनश्रवणेन प्राप्तः । आयतीतिः निरन्तरसतन्यमानभयश्च सन् । वसिनेन उष्णनिश्वासेन जल्पितेन अन्यचिन्तितमन्यदापति तमित्यादिरूपेण वेपितेन कम्पेन हुकृतेन हुकारेण च । अरति निर्वेदम् । असूचयत् , श्वसितादिभिश्वास्य हृद्तो निर्वेदः स्फुट आसादित्यर्थः ॥ जडमतिः स जनार्दनमायया विहसितस्त्रपया जनितव्यथः । अपकृतं वसुदेवममोचय दयितया सह दीनविलापया ॥ ५५ ॥ जडेति। जडमतिः मूढधीः । जनार्दनस्य मायया योगनिद्रया । विहसितः पादताडनादिना अपहसितः । त्रपया लज्जया। जनितव्यथः उत्पादितमनःपीडः । स कंसः,। अपकृत वसुदेवम् । दीनविलापया कात -