पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४७
तृतीयः सर्गः।

गभीर अमन्द्रध्वननम् । उदार परुषवर्णप्रायतया विकटाक्षरबन्धम् । 'विकटाक्षरबन्धत्वमौदार्य परिकीर्तितम्' । अनाकुलं असंभ्रान्तम् । हित पथ्यम् । अविस्तरं शब्दविस्तररहितम् । अर्थ्य अर्थादनपेतम् । अविप्लव वर्णलोपविपर्यासाद्यन्यथाभावरहितम् च यथा तथा उदैरिरदिति सम्बन्धः ॥ ५१॥ अहमशेषसुरासुरमोहनी यवनिका मधुकैटभमर्दिनः। प्रबलशुम्भनिशुम्भनिषूदने प्रणिहिता हतया तव किं मया ॥ ५२ ॥ अहमिति । अहम् । अशेषाणा सुरासुराणां मोहनी मोहकारिणी । करणे ल्युटि डीप् । मधुकैटभमर्दिन. विष्णोः । यवनिका तिरस्कारणी आच्छादनी योगनिद्रेति यावत् । अह च। प्रबलयोः शुम्भनिशुम्भयोः निघूदने वधे ।। प्रणिहिता भगवता प्रेषिता । मया हतया किं त्वद्वधाभिमधिरहिताया मम हननेन तव अनिष्टपरिहारादि किमपि साध्यं नास्तीत्यर्थः । गम्यमानसाधनक्रियापेक्षया करणे हतया मयेति तृतीया ॥५२॥ वसति नन्दगृहे विबुधद्विषां दमयिता वसुदेवसमुद्भवः। अयमसौ तव नाशयितेति सा दरमुदीर्य जगाम यथेप्सितम् ।। ५३ ॥ वसतीति । विबुधद्विषां असुराणाम् । दमयिता प्रहती हरिः वसुदेवसमुद्भवः सन् । नन्दगृहे । वसति । अयमसौ इत्थभूतहरिः।