ज्येष्ठपत्नी । रोहिणी । अग्य अग्रे भव स्वसुत बलदेवम् । असूयत । 'धूम् प्राणिप्रसवे' इति देवादिकधातोः कर्तरि लड् ॥ ४५ ॥ उपगते वसुदेवसुतेऽन्तिक नरकवैरिणि नन्दकुटुम्बिनी। अरणिसंभवपावकसंगमा दभजताध्वरवेदिरिव श्रियम् ॥ ४६ ।। उपगत इति । नन्दकुटुम्बिनी यशोदा । वसुदेवसुते । नरकवैरिणि नरकासुरस्य रिपौ भगति । अन्तिक उपगते सति । अध्वरस्य वेदिः । अरणिसभवस्य पावकस्य वैतानिकानेः सगमादिव। श्रिय शोभाम् । अभजत ॥ ४६॥ न्यधित नन्दवर्धसविधे सुतं द्रुतमुपादित गोपकुमारिकाम् । अथ निनाय च देवकनन्दनी शयनमानकदुन्दुभिराशु ताम् ॥ ४७ ॥ न्यधितेति। आनकदुन्दुभिः । नन्दवधूसविधे यशोदासमीपे । सुत कृष्णम् । न्यधित निधत्ते स्म । निपूर्वाद्दधातरात्मनेपदिनो लुट् । 'स्थाप्योरिच्च' इतीत्वम् । 'ह्रस्वादङ्गात्' इति सिज्लोपः । द्रुत शीघ्रम् । गोपस्य नन्दस्य कुमारिकां योगनिद्रावताररूपाम् । उपादित उपादत्ते स्म । अथ उपादानान्तरम् । तां कुमारिकाम् । देवकनन्दनीशयन देवक्याः सूतिकागृहशयनम् । आशु । निनाय । नन्दनीशब्दः प्रद्वितीयसर्गे व्याख्यातः ॥ ४७ ॥
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१९६
दिखावट