पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४५
तृतीयः सर्गः।

अनवबुद्धजनार्दनकन्यका विनिमयस्त्वथ भोजगणेश्वरः । दृषदि तामभिहन्तुमपातय त्पतिजघान च सा चरणेन तम् ॥ ४८.।। अनवबुद्धेति । अथ तन्नयनानन्तरम् । भोजगणस्य भोजवश्याना सघस्य ईश्वरः कमः । अनवबुद्धजनार्दनकन्यकाविनिमयः अनवबुद्धः अनवगम्यमान: जनार्दनकन्यकाविनिमय. यस्य तथाभूत एव सन् । तुः पादपूरणे। 'तुः पादपूरणे भेद समुच्चयेऽवधारणे' इति विश्वः । ताम् । अभिहन्तुम् । दृषदि शिलायाम् । अपातयत् । सा कुमारिका । चरणेन । तम् । प्रतिजघान प्रतिहन्ति स्म ॥ ४८ ॥ नृपतिराशु पदा निहनस्तया निपतितोदितकन्तुकवद्भवन् । दवसमातशेलनिभः क्रुधा दरनिमीलितदृष्टिरदूयत ॥ ४९ ॥ नृपतिरिति । तया कुमार्या । आशु शीघ्रम् । पदा निहतः चरणेन ताडितः । ‘पदघ्रिश्चरणोऽस्त्रियाम्' इत्यमरः । निपतितोदितकन्तुकवत् भवन् निपतितोद्गतकन्तुकवजायमान., चरणताडनवेगात्कन्तुकवत्पतनोत्पतनदशामनुभवनिति यावत् । क्रुधा कोपेन । दवसमावृतशेलनिभः दवामिपरिवृतशैलोपमः तद्वत्प्रज्वलनिति यावत् । दरनिमीलितदृष्टिः ईषनिमीलितलोचनः । नृपतिः कसः । अयत पर्यतप्यत । कन्तुकस्तकारमध्यम इति धातुवृत्तिकारः । कं शिरो दुनोति नमनोनमनेक्षणादिभिरिति दकारमध्य इति क्षीरतरङ्गिणीकारः ॥ ४९ ॥ 10 THE KUPPUSWAMI SASTRI RESEARCH INSTITUTE MADRAS.4