पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४३
तृतीयः सर्गः।

पितरं गिरि कलिन्दपर्वतम् । प्रतिययौ प्रतिनिवृत्ता । पश्चादौनत्येन प्रथमोत्प्रेक्षा, पुरतः स्थलशेषतया द्वितीया। अत्रोत्प्रेक्षाद्वयेऽप्यन्यदप्येक निमित्त व्यज्यते । गङ्गाया गगनप्रवाहगुणोत्कर्षण पतिस्तस्यामव रज्येदिति तदसहिष्णुता । सपल्युत्कर्षासहिष्णवो हि तत्साम्ये प्रयतन्ते । तदशक्ती पितृगृहमेव प्रतिनिवर्तन्ते ॥ ४३ ॥ अकृतसेतुमनाकलितप्लवां जननसिन्धुदृढप्लवमुद्वहन् । रविसुतामतिलङ्घय रमापति सपदि घोषसमीपमुपानयत् ॥ ४४ ॥ अकृतेति। जननसिन्धोः भवसागरस्य दृढप्लव अशिथिलोडपमिव तारक कृष्णम् । उद्वहन् वसुदेवः । अकृतसेतु अनारचितसेतुबन्धाम् । अनाकलितप्लवां अविन्यस्तोडुपाम् । रविसुतां यमुनाम् । अतिलञ्चय । रमापति तमेव कृष्णम् । सपदि । घोषसमीपम्। उपानयत्। आभीरनामान्तिक प्रापयत् । 'घोष आभीरपली स्यात्' इत्यमरः ॥ ४४ ॥ अथ कयाचन कारणनिद्रया विवशसुप्तजनं व्रजमाविशत् । धनदपत्तनसंपदि यत्र सा स्वसुतमयममयत रोहिणी ॥४५॥ अथेति। कयाचन अनिर्वचनीयया आश्चर्यभूतया। कारणनिद्रया जगत्कारणभूतया निद्रया, भगवन्माययेति यावत् । विवश अवशात्मक यथा तथा सुप्तजनम् । व्रज गोकुलम् । अविशत् प्रविष्टः । धनदपत्तनस्य कुबेरनगरस्य संपदिव सपद्यस्मिन् तथाभूते । यत्र व्रजे । सा स्वस्य