पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
यादवाभ्युदये

पषमिनिकरैः । अनुपप्लुतः अनुपातः । स वसुदेवः। अनघयोग अप्रतिबन्धयोगं मनो यस्य स योगी। मंसृति संसारमिव । दिनाधिपतेः सुतां यमुनां । अतिततार ॥ ४५ ॥ यदुपतेर्यमुना त्वरितं यतः प्रतियतश्च समर्पितपद्धतिः । स्वयममर्त्यमदावलमज्जनी चरणलङ्घ यजला समजायत ॥ ४२ ॥ यदुपतेरिति । स्वय खतः । अमर्त्यमदावलस्य एरावतादेर्दैवगजस्य मजनी निमजनकरी । मस्जिधातोरधिकरणार्थे ल्युटि डीप् । यमुना। चरणलक्मयजला चरणतार्यसलिला सती । त्वरित शीघ्रम् । यतः प्रतियतश्च गच्छतः प्रतिनिवर्तमानस्य च । यदुपतेः वसुदेवस्य । समर्पितपद्धतिः समजायत दत्तमार्गा बभूव ॥ ४२ ॥ अजनि पश्चिमतो भृशमुन्नता रविसुता पुरतः स्थलशेषिता । अधिरुरोह पदं किमसौ हरेः प्रतिययौ यदि वा पितरं गिरिम् ।। ४३ ।। अजनीति । रविसुता यमुना । पश्चिमतः पश्चिमभागे । आद्यादित्वात्तसिः । भृशम् । उनता। अजनि जाता, वसुदेवमार्गे समागच्छतः प्रवाहस्य निरोधादिति भावः । जनिधातोः कर्तरि लुडि 'दीपजनबुध-' इत्यादिना चिण् । पुरतः पुरोभागे। स्थलशेषिता सजातस्थलशेषा । अजनीत्यनुषङ्गः । इद यमुनायाः सस्थानमुत्प्रेक्ष्यते । असौ यमुना । हरेः पदं आकाशम् । अविठरोह किं अधिरूढवती किम् । यदि वा अथवा ।