पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४१
तृतीयः सर्गः।

मूर्ती शरत्कालप्रभवां रात्रिमिव स्थिताम् । अम्बुनिधेः अभिसारिकाम् । 'रतार्थिनी तु या याति सकेत साभिसारिका । अत्र समुद्रमुद्दिश्य गमनाद्यमुनैव तदभिसारिकेत्यध्यवसीयते ताम् । सत्यसमाहितः अवितथाभिलाषो वसुदेवः । त्वरित शीघ्रम् । तारतम् । ऐहत ऐच्छत् ॥ ३९ ॥ भवति किं नु भविष्यति वा किमि। त्यनवधारितशौरिविहारया । चकितयेव विरोचनकन्यया विधुतवीचिकरं किल विव्यथे ॥ ४०॥ भवतीति । अनवधारितशौरिविहारया अनाकलितभगवत्क्रीडया, नन्दकुलप्रयाणादिक क्रीडामात्र वस्तुतो न कसभयप्रयुक्तमित्यजानत्येति यावत् । विरोचनस्य सूर्यस्य कन्यया यमुनया । कि नु भवति किमिदानी कृच्छ्र वर्तते । किं वा भविष्यात इतः पर कि वा भविष्यति । इति चकितया कमचरित्रमनुचिन्त्य भीतया सत्या । विधुतवीचिकर विधुतोर्मिहस्त यथा तथा । विव्यथ इव किल ॥ भावे लिट् ॥ ४० ॥ घनतमःपरिपाकमलीमसै गुरुभिरूमिगणैरनुपप्लुतः। अतिततार दिनाधिपतेः सुता मनघयोगमना इव संसृतिम् ।। ४१ ।। घनेति। घनतमःपरिपाकमलीमसैः गाढान्धकारपरिणामैरिव मलिनैः । गुरुभिः पृथुभिः । ऊर्मिगणैः वीचिनिचयैः । योगिपक्षे सान्द्रतमोगुणपरिणामतया मलिनै. । ऊर्मिगणैः अशनायापिपासाशोकमोहजरामरणरू