पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
यादवाभ्युदये

पवनस्थली यमुनातटारामस्थली । यदुपति वसुदेवम् । भ्रमरस्वनैः । उपजुहाव किल उपह्वयति स्म किल । यथा राशि गच्छति मार्गे पुष्पार्पणादिराजोपचारपूर्वकमाह्वयन्ति तद्वदाह्वानमुत्प्रेक्ष्यते ॥ ३७ ॥ निमिषितासितनीरजलोचना मुकुलिताब्जमुखी सवितुः सुता । ललितदीनरथाङ्गयुगस्वना कुहकदैन्यमशोचदिव प्रभोः ॥ ३८ ॥ निमिषितेति । निििषतासितनीरजलोचना मुकुलितेन्दीवरनयना । मुकुलिताब्जमुखी मुकुन्टिनाम्बुजवदना । ललितदीनरथाङ्गयुगस्वना मनोजविरहकातरचक्रवाककदम्बनिनदा । मवितु सुता यमुना । प्रभोः कृष्णस्य । कुहकदैन्य कमभयादिव रात्री नन्दकुलप्रयाणरूप मायाविनो दैन्यम् । अशोचदिव शोक कृतवतीत्युत्प्रेक्षा। दैन्यानहस्य दैन्य दृष्ट्वा स्त्रिय इत्थ शोचन्तीति भावः । ‘ना भावभेदे स्त्रीनृत्त ललितं त्रिषु मुन्दरे' इति शब्दार्णवे। गनाविन्दावरनिमीलनवर्णन द्वितीयसर्गे सङ्गमितम् ॥ ३८ ॥ विकचकैरवनारकिनाकृति तनुमतीमिव शारदयामिनीम् । त्वरितमम्बुनिधेरभिसारिकां तरितुमेहत सत्यसमीहितः ॥ ३९ ॥ विकचेति । विकचकैरवैः विकसितकुमुदैः ताकिता संजाततारका आकृतिः यस्यास्ताम् । अत एव, तनुमती शारदयामिनीमिव स्थितां