सौहृदशब्दः । ननु कथं ' हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इति नोभयपदवृद्धिः । इत्थम् । अणि परतो हृदादेशवृद्धिशास्त्रयोरन्यत्र सावकाशयोः परत्वादृद्धिशास्त्र प्रथमं प्रवर्तते । तत्प्रवृत्तिकाले हृदन्तत्वाभावानोभयपदवृद्धिरित्यादिवृद्धिः । ततो हृदादेशः । तदनन्तर तु हृदन्तत्वोपजीवनेन नोभयपदवृद्धिः । आकृतिपदार्थपक्षे वृद्धरेकत्वात् तस्याश्चैकस्मिन्पदे सकृप्रवृत्तायास्तत्रैव पुनः प्रवृत्त्यभावात् । यद्वा हृद्भगसिन्ध्वन्ते-' इत्यत्र अन्तग्रहणसामादिद विज्ञायते हृदन्तादेव यत्र अणादयो विहितास्तेषु परत उभयपदवृद्धिः, न तु हृदयान्तादणाद्युत्पत्त्यनन्तर हृदादेशे भवतीति । तेन शोभनहृदयार्थक सुहृदयशब्दप्रकृतिक सौहृदमिति भवति । सौहार्दमिति तु मित्रवाचिसुहृच्छब्दप्रकृतिकमिति न कश्चिद्दोषः । केचिदाहुः युवादिषु सुहृत्सुहृदयशब्दो द्वारपि पठ्यते तत्र सुहृन्छब्दस्यापि सुहृदयशब्दप्रकृतिकरय एकदेशविकृतन्यायेन सुहृदयशब्दपाठादेवाणि सिद्धे पुनः पाठोऽन्यत्र सुहृदयशब्दे यद्भवति तत्सुहृच्छब्द नास्तीति ज्ञापनार्थम् । तन सुहृदयशब्दादणि हृदादेशे सति उभयपदद्धिः, सुहृच्छब्दादणि तु नोभयपदवृद्धिरिति । अपरे तु सज्ञापूर्वको विधिनित्य इति कचिदुत्तरपदवृद्ध्यभावमाहुः ॥ ३६ ॥ पवनकम्पितपल्लवपाणिका प्रहितपुष्पभरा पदवीमुखे । उपजुहाव किल भ्रमरस्वन यदुपतिं यमुनोपवनस्थली ।। ३७ ।। पवनेति । पवनेन कम्पित. पल्लव एव पाणिर्यस्यास्तथाभूता । पदवीमुखे मार्गपुरोभागे । प्रहितपुष्पभरा क्षिप्तपुष्पनिचया । यमुनो.
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१९१
दिखावट