हित्यम् । प्रजही । किलेति परकृती ‘इति किलोपाध्यायः कथयति' इतिवत् ॥ ३४ ॥ प्रगुणमिन्दुनिवेदितपद्धति यदुकुलेन्दुरयो यमुनानदीम् । परमपूरुषमक्षतपौरुषः पतगराज इवाशु वहन्ययौ ॥ ३५ ॥ प्रगुणमिति । अथो अनन्तरम् । अक्षतपौरुषः अखण्डपराक्रमः । अत एव, पतगराजः गरुड इव । परमपूरुष भगवन्तम् । 'सन्महत्परमोतमोत्कृष्टाः पूज्यमानः' इति समासः । वहन् । यदुकुलेन्दुः यदुकुलस्य इन्दुरिव आह्लादको वसुदेवः । प्रगुण ऋजु यथा तथा । 'अजिह्मप्रगुणौ' इत्यमरः । इन्दुना निवेदितपद्धतिः दर्शितमार्गः सन् । आशु शीघ्रम् । यमुनानदीम् । ययौ ॥ ३५॥ तनुतरङ्गपृषत्कणशीतलः सुरभिकैरवसौहृदवासितः। अभिसमेतमसेवत मारुतो यमुनया प्रहितो यदुपुंगवम् ।। ३६ ॥ तनुतरङ्गेति। तनुभि. सूक्ष्मेः तरङ्गपृषत्कणे. ऊर्मिबिन्दुलवैः शातलः । ‘पृषन्ति बिन्दुपृषता' इत्यमरः । सुरभिण: कैरवस्य कुमुदस्य सौहृदेन मित्रभावेन ससर्गेण वासित सुरभितः । यमुनया नद्या । प्रहितः प्रेषितः । मारुतः । अभिसमेत प्राप्तम् । यदुपुङ्गव यदुश्रेष्ठं वसुदेवम् । असेवत श्रान्त्यपनयेन सेवामकरोदित्यर्थः । सुहृदयशब्दस्य युवादित्वाद्भावे अण्प्रत्ययः। 'हृदयस्य हल्लेखयदण्लासेषु' इति हृद्भावे आदिवृद्धी
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१९०
दिखावट