सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३७
तृतीयः सर्गः।

श्रुतिमयो विहगः परितः प्रभु व्यचरदाशु विधूतनिशाचरः। अनुजगाम च भूधरपन्नगः स्फुटफणामणिदीपगणोद्वहः ॥३३॥ श्रुतीति । श्रुतिमयः त्रिवृद्गायत्र्यादिरूपः । विहगः सुपर्णः । 'सुपर्णोऽसि गरुत्मान् त्रिवृत्ते शिरः' इत्यादि श्रुतेः । प्रभु कृष्णम् । परितः सर्वत । 'अभितः परित - ' इत्यादिना द्वितीया। आशु शीघ्रम् । विधूताः पक्षवातेन कम्पिताः निशाचरा रात्रौ चरन्तो राक्षसादयो येन तथाभूतः सन् । व्यचरत् चर्गत स्म । भूधरः भुवो भूमेधरो धारयिता । पन्नग शेषश्च । स्फुटाः प्रव्यक्ताः फणामणय एव दीपाः तेषां गणस्य समूहस्य उद्वहो वोढा सन् , फणारत्नदीपैर्मार्ग प्रकाशयनिति यावत् । अनुजगाम अनुगच्छति स्म ॥ ३३ ॥ दिनकरोपमदीधितिभिस्तदा दनुजदेहविदारणदारुणैः। परिगतः किल पञ्चभिरायुधै यदुपतिः प्रजहावसहायताम् ॥ ३४ ॥ दिनकरेति । तदा तस्मिन्समये । दिनकरोपमदीधितिभिः रविप्रतिमकिरणैः । दनुजदेहानां असुरशरीराणां विदारणेन भेदनेन दारुणैः भीषणैः । पञ्चभिः। आयुधैः शङ्खचक्रगदाखड्गशारूपैर्भगवदायुकैः। परिगतः परिवृतः। यदुपतिः वसुदेवः । असहायतां सह अयन्ते गच्छन्तीति सहायाः सहयात्राः । 'सहायास्तु सयात्राः स्युः' इति शब्दार्णवः । तद्रा