पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
यादवाभ्युदये

ल्यादिविवक्षापचये यदि' इति. स्त्रीत्वे गौरादित्वान्डष्प्रित्यये 'के णः'. इति ह्रस्वत्वे च सति कवाटिकेति रूपम् ॥ ३० ॥ क्षरदमूनिव यामिकरक्षका न्मुषितमञ्जगिरः शुकशारिकाः। यदुकुलेन्दुरपश्यदमीलिता परिजनानपि चित्रगतानिव ॥ ३१ ॥ क्षरदिति । यदुकुलेन्दु' यदुकुलस्येन्दुरिवाहादको वसुदेवः । क्षरदसून् निर्यप्राणानिव बहिरवबोधरहितान् । यामिकरक्षकान् अनुयाम नियुक्तान्कारागृहरक्षकान् । मुषितम गिरः अपगतमजुभाषणाः । शुकशारिकाः । अमीलितान् उन्मीलितलोचनानपि । चित्रगतानिव अकिचित्करान् । परिजनान् । अपश्यत् । शारिका. शुकवद्भाषणशीलाः पक्षिविशेषाः । शुकाङ्गना इति केचित् ॥ ३१ ॥ उपयतो विशिखां सदनान्तरा कुवलयामकुमारतनुत्विषा । शतमखोपलमेचकया द्रुतं शमितसंतमसा.हरितो बभुः ॥ ३२॥ उपयत इति । सदनान्तरात् गृहाभ्यन्तरात् । विशिखां रथ्याम् । उपयतः उपगच्छतः । वसुदेवस्येति शेषः । सबन्धसामान्यविवक्षया षष्ठी। हरितः दिशः । शतमखोपलमेचकया इन्द्रनीलरत्नश्यामलया । 'उपलः प्रस्तरे रत्ने' इति विश्वः । कुवलयाभस्य इन्दीवरत्विषः कुमारस्य तनुत्विषा देहप्रभया। शमितसंतमसाः निराकृतगाढान्धकारः । बभुः भान्ति स्म ॥ ३२॥