पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३५
तृतीयः सर्गः।

जिगमिषुः स दिशो दश यादवः सकृदवैक्षत साध्वसविहलः। अनघवैभवमर्भकमुबह अमितगुप्तिनिरुद्धगतौ गृहे ।। २९ ॥ जिगमिषुरिति । अनघवैभव अखण्डितप्रभावम् । अर्भक कुमारम् । उद्वहन् । जिगमिषुः नन्दगृह गन्तुमिच्छुः । स यादवः वसुदेवः । अमितगुप्तिभिः कवाटसघटनयामिकशुकशारिकानिवेशनादिभिः निरुद्ध - गतौ प्रतिबद्धगमने । गृहे । सा वसेन भयेन विह्वलो विक्लबः स्वागधारणेऽप्यसमर्थः सन् । दशापि दिशः । सकृत् । अवक्षत । 'युवोरनाको' इति सौत्रनिर्देशादागमविधिरनित्य इति ‘निरुद्धगतो' इत्यत्र नुमागमो न ॥ २९ ॥ विजघटे सहसेव कवाटिका व्रजमथ व्रजतो यदुभूभृतः। उपलकल्पमशेरत रक्षकाः सरणिमादिदिशुम्रहदेवताः ॥ ३० ॥ विजघट इति । अथ तदीक्षणानन्तरम् । व्रज गोकुलम्। व्रजतः। यदुभूभृतः यदुराजस्य । सबन्धसामान्यविवक्षया षष्ठी । सहसा शीघ्र - मेव । कवाटिका कवाटम् । विजघटे विघटते स्म । रक्षकाः । उपलकल्प पाषाणतुल्य यथा तथा । निश्चेष्टमिति यावत् । अशेरत । गृहदेवताः गृहाधिष्ठात्र्यो देवताः । सरणि निर्गमनमार्गम् । आदिदिशः उपदिदिशुः । कारागृहद्वारकवाटस्याल्पत्वविवक्षया स्त्रीत्वम् । 'स्त्री स्यात्काचिन्मृणा