सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३४
यादवाभ्युदये

श्रुतिसुगन्धितदामनचन्द्रिका मुषितमोहतमा मुनिसंनिभः। अधिजगाम स तन्मयतां क्षणा दनिमिषत्वमुत प्रतिसंदधे ।। २७ ।। अथ वसुदेवस्य निर्निमेषतया तदाननैकाग्र्यमेवोत्प्रेक्षते-श्रुतीति । शोभनो गन्धो यस्यति सुगन्धि । 'गन्धस्येदुत्पूतिसुसुरभिभ्यः' इति इन्प्रत्ययः । श्रुत्या सुगन्धि च तत् तस्य सुतस्यानन च तस्य चन्द्रिकया कान्त्या मुषित निरस्त मोहतमः अज्ञानान्धकारः यस्येति तथाक्तः । मुनिसनिभः मुनिसदृशो वसुदेवः । क्षणात् । तन्मयतां कृष्णतादात्म्यम् । अधिजगाम प्राप। उत अथवा । अनिमिषत्व प्राक्काइयपरूपतया देवत्वम् । प्रतिसन्दधे । खकीयानिमिषत्वानुसन्धानादिदानी निमेषरहितो जात इत्यर्थः । उत्प्रेक्षाद्वयमिद वाचकाप्रयोगाद्गम्यम् । चन्द्रिकेति मुखकान्तेनिंगीर्यान्यवसानादतिशयोक्तिः । मोहतम इति रूपकं चेति तयोः, सकरः । उत्प्रेक्षाद्वयेन संसृष्टिः ॥ २७ ॥ तुहिनभानुदिवाकरलोचनं निगमनिःश्वसितं स्वसुतस्य तत् । अनुबभूव मुहुर्मुहुरादरा दनघमाननमानकदुन्दुभिः ॥ २८ ॥ तुहिनेति । तुहिनभानुदिवाकरलोचन चन्द्रसूर्यनयनम् । निगमनिःवसितं वेदनिःश्वासम् । 'अस्य महतो भूतस्य निःश्वसितमेतदृग्वेदो यजुर्वेद --' इत्यादिश्रुतेः । अनघ रम्यम् । तत् । स्वसुतस्य + आननम् । आदरात् । मुहुर्मुहुः । अनुबभूव पश्यति स्म ॥ २८ ॥