पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३०
यादवाभ्युदये

वरद वाञ्छितदानधृतवते त्वयि तदेवमयनमपच्यत ॥ २० ॥ अखिलेति । हे वरद । अहम् । अखिललोकपितुः सकललोकजनकस्य । तव पुत्रतां त्वदीयपुत्रभावम् । अनन्यमनोरथः अन्याभिलाषरहितः सन् । अयाचं प्राग्जन्मनि याचितवानस्मि । याचतिः स्वरितत्वादुभयपदी । वाञ्छितदानधृतव्रते भक्तजनाभिलषितविश्राणनभृतनियमे । त्वयि । तत् । याचनम् । एव अनेन प्रकारण त्वदाविर्भावरूपेण । अयत्न यमरहित यथा तथा । अपच्यत स्वयमेव पक्वम् । कर्मकर्तरि यक् ॥२०॥ अवनिभारनिराकरणार्थिनां क्रतुभुजामभिलाषमवन्ध्ययन् । जितरिपूणि बहूनि दयानिधे विहरणानि विधातुमिहार्हसि ॥ २१ ॥ अवनीति । हे दयानिधे । अनिभारनिराकरणार्थिनाम् । ऋतुभुजां देवानाम् । अभिलाषम् । अवन्ध्ययन् अविफल कुर्वन् । जितरिपूणि जितशात्रवाणि । बहूनि । विहरणानि क्रीडितानि । इह भूमौ । विधातुं कर्तुम् । अर्हसि ॥२१॥ दनुजमोहनदोहलिना त्वया सहजलाञ्छनसंवरणं क्षमम् । तदभुना शमयन्मम साध्वसं यवनिकामधिगच्छ यथेप्सितम् ॥ २२ ॥