सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२९
तृतीयः सर्गः।

मारुतः तेन चोदितः प्रेरितः सन् । विविधानि रूपाणि अवतारा एव तरङ्गाः तेषां विकल्पनां रचनाम् । प्रतिपद्यसं प्राप्नोषि । अत्र जगदनुग्रहादी मारुतत्वाधारोपादेकदेशविवर्तिरूपकेण भगवति समुद्रत्व प्रतीयते । तत्र समुद्रपक्षे श्रुतिकिरीट: श्रुनिशिरसा प्रतिपाद्यत्वेन अलङ्कारः भगवान् तस्य शेषशायिनः शुभाश्रयो विग्रहो यस्य स । परमसत्त्वनिधिः उत्कृष्टजन्तूनां शङ्खशुक्तिकादीनां निधिरिति योज्यम् । ‘सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः । आत्मनि व्यवसायेऽपि चित्ते प्राणिषु जन्तुषु।' इति विश्वः। त्वयि न देव यदायतते न त जगति जङ्गममन्यदथापि वा। इति महिन्नि तव प्रमिते परं विभजने विविधैः स्थितमागमैः॥ १९ ॥ त्वयीति । हे देव । त्वयि विषये यत् न आयतते यत्त्वय्यायत्त न भवति । तज्जङ्गमम् । अथान्यदपि स्थावर वा । जगति लोके । नास्ति स्थावरजङ्गमात्मक सर्वमपि वस्तु त्वदधीनमित्यर्थः । इति अनेन प्रकारेण । तव । महिम्नि । प्रमिते परिच्छिन्ने सति । विविधैः श्रुतिस्मृतीतिहासपुराणपाश्चरात्रादिरूपैः । आगमैः । विभजन पर सक्षेपेण निश्चितस्य तव महिनो विशिष्य व्याकरण एव । स्थित निविष्टम् । सर्वप्रपञ्चस्य त्वदधीनत्व विशिष्य व्याख्यातुमेव श्रुतिपुराणादीनि शास्त्राणि विविधानि प्रवृत्तानीत्यर्थः ॥ १९॥ अखिललोकपितुस्तव पुत्रता महमयाचमनन्यमनोरथः।