पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२८
यादवाभ्युदये

खदनुभावमहोदधिशीकरै रवशपातिभिराहितशक्तयः । .. अवधिभेदवतीमुपभुञ्जते स्वपदसंपदमब्जभवादयः ॥ १७ ।। त्वदनुभावेति । अब्जभवादयः चतुर्मुखप्रभृतयो देवाः । अवशपातिभि. तत्तदनिच्छायामप्यवश्यमापतद्भिः । 'वश आयत्ततायां स्याद्वशमिच्छाप्रभुत्वयोः' इति विश्व. । 'आवश्यकाधमयॆयोणिनिः' इति णिनिप्रत्ययः । त्वदनुभावमहोदधिशीकरैः त्वत्प्रभावाम्बुधेरम्बुकणैः त्वत्प्रभावलेशैरिति यावत् । आहितशक्तयः उत्पादितस्वस्खाधिकारनिर्वतनसामर्थ्याः सन्तः । अवधिभेदवती मर्यादाभेदवतीम् । खपदसपद स्वपदस्य सत्यलोकादेर्लक्ष्मीम् । उपभुञ्चतं । तथा च पुराणवचनम्'एक एव जगत्वामी शक्तिमानच्युतः प्रभुः । ब्रह्मेन्द्रयमवह्नीन्दुदिवाकरमनुग्रहाः। तच्छक्तयाविष्टिनाः सर्वे मोदन्ते दिवि देवताः।' इति ॥ १७॥ श्रुतिकिरीटशुभाश्रयविग्रहः परमसत्त्वनिधिः प्रतिपद्यसे । जगदनुग्रहमारुतचोदितो विविधरूपतरङ्गविकल्पनाम् ॥ १८ ॥ श्रुतीति । श्रुतिकिरीट: ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषः' इत्यादिश्रुतीनां प्रतिपाद्यतयालकारः शुभाश्रय. योगिनां ध्यानस्य शुभालम्बनभूतश्च विग्रहो मूर्तिः यस्य स तथोक्तः । परमसत्त्वनिधिः रजस्तमोऽसंवलिततया उत्कृष्टस्य सत्त्वगुणस्य शेवधिः । त्वम् । जगदनुग्रह एव