पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२७
तृतीयः सर्गः।

निरपेक्षमनस्कः मन् । प्रणिपतामि ‘नर्गद-' इत्यादिना णत्वम् । अ. निदप्रथमा: अनादयः । गिरः वेदगिरः। किमपि इदमित्थमिति परिच्छेत्तमशक्यम् । यस्ख पद पद्यते प्राप्यते भक्तजनैरिति पद स्वरूपम् । अनुगमात् उपक्रमोपसहाराद्यैकरूग्य प्राप्य । ल्यब्लोपे पञ्चमी । अधीयते आमनन्ति । त्था हि कठवलं. श्रुतिराह ---- ‘सर्वे वेदा यत्पदमामनन्ति ; तपांसि सर्वाणि च यद्वदन्त । यदिच्छन्तो ब्रह्मचर्य चरन्ति ; तत्ते पद सग्रहेण ब्रवीमि' इत्यारभ्य ‘सोऽवन पारमाप्नोति त. द्विष्णोः परम पदम्' इत्यन्तेन । त प्रणिपनामीति पूर्वण सबन्धः । अभूषित. कान्त इति वत् अनन्यधीरिति नरपेक्ष्ये । इद चेतरनैराश्यलक्षणमाकिचन्य प्रपदनाधिकारविशेष दर्शयितुम् ॥ १५ ॥ विपमकमावपाकपरम्परा विवशत्तिषु देहिपु दुस्तरम् । करुणया तव देव कटाक्षिताः कति चिदेव तरन्ति भवार्णवम् ॥ १६ ॥ विषमेति । हे देव । विषमाणां विरुद्धानां दुरन्तानां कर्मणां विपाकस्य फलदानावस्थायाः परम्परया विवशा अवशवदा वृत्तिः वर्तन येषां तेषु दुष्कर्मभिर्बलात्ससारे विवर्तमानेष्वित्यर्थः । 'विवशः स्यादवश्यात्मानिप्रदुष्टधियोरपि' इति विश्वः । देहिषु- शरीरिषु । ' यतश्च निर्धारणम् ।' इति सप्तमी । तव । करुणया। कटाक्षिताः विषयीकृताः । कतिचिदेव विरला एव । दुस्तरं कृच्छ्रेण तरितव्यम् । 'ईषदुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्' इति खल्प्रत्ययः । भवार्णवं संसारसागरं । तरन्ति । ते च त्वद्दयाविषयत्वयोग्यास्त्वद्भका विरला एवेत्यर्थः ॥ १६ ॥