पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
यादवाभ्युदये

भावे घप्रत्ययः । तत्र घित्करणेन खनाऽन्यत्रापि भवतीति ज्ञापनात् । तथा च रथाङ्गगदः रथाङ्गनामति योज्यन् । शुभया मनोज्ञया । वनमालया वैजयन्त्या। जलनिधिपक्षे वेलावनपझ्क्त्या । शबलितः चित्रितः । अत एव जला बडिम्भानभः जलधिपोत इव स्थितः । जननीधृनः जनन्या मात्रा धृतः । पृथुकः अर्भक । पितुः वसुदेवस्य । मुद असूत सतोषमुत्पादयामास ॥ १३ ॥ पितरमब्जभुवामनपायिनं . प्रियतमाङ्कगतं परिपश्यता । स विभुरानकदुन्दुभिना महा नवितथैः स्वगुणैरभितुष्टचे ॥ १४ ॥ पितरमिति । अब्जभुवां प्रतिकल्प भिन्नानां ब्रह्मणाम् । अपायी न भवतीत्यनपायी तं नित्यसिद्धम्। पितर नारायणम् । प्रियतमाक्तगत परिपश्यता स्वप्रियाया उत्सद्गगतमवलोकयता । आनकदुन्दुभिना वसुदेवेन । सः ब्रह्मणामपि जनकः । महान्विभुः । अवितथैः तथ्यैः । स्वगुणैः । अभितुष्टुवे अभिष्टुतः ॥ १४ ॥ प्रणिपतामि भवन्तमनन्यधी रखिलकारणमाश्रिततारणम् । अनुगमादानदंप्रथमा गिरः किमपि यत्पदमेकमधीयते ।। १५॥ प्रणिपतामीति। अखिलकारण सर्वजगत्कारणम् । आश्रितानां शरणागतानां तारण संसारादुत्तारकम् । भवन्तम् । अनन्यधीः अन्य.