पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२५
तृतीयः सर्गः।

मुक्तः । तदेव दृढङ्खलविगलनं कविः समर्थयते । निखिलबन्धनिवर्तकस्य अविद्याद्यतिदृढसमस्तबन्धनिवृत्तिजनकस्य भगवतः सनिधौ । निगलस्य । विगलनम् । किमाश्चर्यम् । अर्थापत्यनुप्राणितः सामान्येन विशेषमर्थरूपोऽर्थान्तरन्यासः ॥ ११ ॥ उदितमात्मान देवकसं भवा दनुजभेदनमङ्कगतं दधौ ! कमपि काञ्चनभूभृदधित्यका हरिहयोपलशृङ्गमिवाद्भुतम् ।। १२ ।। उदितमिति । देवकसभवा देवकात्मजा। आत्मनि । उदितम् । अङ्कगत उत्सङ्गगतम् । दनुजभेदन दनुजानां असुराणां विदारक कृष्णम् । काञ्चनभूभृतः सुमेरोः अधित्यका ऊर्श्वभूमि. । कमपि अनिर्वचनीयरूपम् । अत एव अद्भुत आश्चयम् । हरिहयोपलशृङ्गम् । इन्द्रनीलरत्नशिखरामिव । दधौ । 'क्रीडाम्बुयन्त्रे शृङ्गोऽस्त्री पर्वताग्रप्रभुत्वंयोः' इत्यनुशासनात् शृङ्गशब्दः पुंलिङ्गोऽपि । उपमालंकारः ॥ १२ ॥ विधृतशखरथाङ्गगदाम्बुजः शबलितः शुभया वनमालया। पितुरस्त मुदं पृथुकस्तदा जलधिडिम्बनिभो जननीधृतः ॥ १३ ॥ विधृतेति । विधृतशरथाजगदाम्बुजः ऊर्ध्वसव्यदक्षिणकरयोरधःसम्यदक्षिणकरयोश्च क्रमेण विधृतशङ्खचक्रगदाम्बुजः । जलनिधिपक्षे गदो गदनं नाम । 'गद व्यक्तायां वाचि' इति धातोः ‘खनो घ च' इति THE KUPPUSWAMI SASTA RESEARCH INSTITUTF MADRAS.a