पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३१
तृतीयः सर्गः।

दनुजेति । दनुजमोहनदोहलिना असुरमोहनेच्छावता। त्वया। सहजलाञ्छनस्य चतुर्भुजत्वादेः संवरण गोपनम् । कर्तुं क्षम योग्यम् । 'योग्यशक्तहिताः क्षमाः' इत्यमरः । तत् तम्मात्। अधुना। मम। साध्वस अप्राकृतरूपदर्शनजन्यं भयम् । शमयन् अपनयन्मन् । यथेप्सित ईप्सितमनतिक्रम्य इप्सितानुसारेण । 'यथा सादृश्ये' इत्यव्ययीभावः । यवनिका तिरस्करणी सहजलाञ्छनाच्छादकर रूपान्तर । अधिगच्छ गृहाणेत्यर्थः । 'दोहलं दोहद छन्दः' इति इच्छापर्यायेष्वमरकोशशेषः। सहजलाञ्छनसवरणमित्यत्र कर्तुमित्यनध्याहारे त्वयेति कर्तरि तृतीया नोपपद्येत । 'कर्तृकर्मणोः कृति' इति कृयोगे कर्तरि षष्ठीविधानात्। तदध्याहारे त्वव्ययोगेन 'न लोकाव्ययनिष्ठाखलर्थतनाम्' इति षष्ठीनिषेधात्कर्तरि तृतीयोपपद्यते । न च तदनध्याहारेऽपि सहजलाञ्छनस्येति कर्मणि षष्ठीति 'उभयप्राप्तो कर्मणि' इति षष्ठीनियमात्कर्तरि तृतीयोपपद्यत इति वाच्यम् । उभयप्राप्तो कर्मणि षष्ठयाम् ‘कर्मणि च' इति समामनिषधादत्र शेषषष्ठीत्वेनैव समासस्योपपाद्यत्वात् । केचिदनध्याहारेऽपि 'अन्तधौं येनादर्शनमिच्छति' इति मौत्रनिर्देशदर्शनात्कृद्योगेऽपि कर्तरि तृतीयेत्याहुः ॥ २२ ॥ इति स भीतमवेक्ष्य दयानिधिः स्मितमुखो वसुदेवमभाषत । त्वमसि मे जनकः किमिहान्यथा किमपि तात मुधा कथितं त्वया ॥ २३ ॥ इतीति । इति उक्तप्रकारेण । सभीत ससाध्वमम् । भीतमिति भावे कः । वसुदेवम् । अवेक्ष्य । स्मितमुखः प्रहसिताननः । दयानिधिः देवः । अभाषत । त्व मे जनकः पितासि । हे तात । इह पुत्ररूपेऽस्मिन्विषये ।