पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१११
द्वितीयः सर्गः।

निर्धारणाशक्तिरूपक्रियान्वयात् तुल्ययोगितालङ्कारः । तेन नभस्तोययोरन्योन्यसादृश्यरूपोपमेयोगमा व्यज्यते । तथा च तयोः सादृश्यान्तरव्यावृत्तिर्योत्यते ॥ ८६ ॥ नमस्तुषारांशुमयूखयोगात् तमिस्त्रया मोक्षमविद्ययेव । अतृष्यतस्तत्त्वविदो निशाया मन्तर्मुखं चित्तमिवान्दविन्दत् ॥ ८७ ॥ नभ इति । नभ । तुषाराशुमयूखयोग.त् चन्द्रकिरणसमर्कान् । तमिस्रया अन्धकारेण । अविद्यया अज्ञानेनेव । मोक्ष। अन्वविन्दत् अलभत । अतृष्यत. तृष्णारहितस्य । तावविदः तत्त्वस्य । निशाया रात्रौ । अन्तर्मुख बहियामहेत्वभावात्प्रत्यगभिमुखम् । चित्तमिव । तद्यथात्मयोगाद्योगाभ्यासात् अविद्यया मुच्यते तद्वदित्यर्थः । विरक्तरय तत्त्वविदोऽपि चित्त निशायां यदा ध्यानाभिमुख प्रसीदान तथेति भावः । अनेकेवो. पमालङ्कारः ॥ ८७ ॥ सहोदिता चन्द्रमसा बभासे ज्यात्स्ना पयोधरुपजातरागा। तदातने संजननेऽपि शौरेः सहायिनी सागरसंभवेव ।। ८८ ॥ सहोदितेति । चन्द्रमसा सह । पयोधेः समुद्रात् । उदिता । उपजातराग सजातोदयरागा । ज्योत्स्ना । तदातने सजननेऽपि तत्कालीनावतारेऽपि । शौरेः । सहायिनी सहायभूता । सागरसंभवा लक्ष्मीरिव