पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११०
यादवाभ्युदये

सरिन्मुखैस्तोयमधुपदिष्ट पीत्वा नवं प्रीत इवाम्बुराशिः। चकार चन्द्रातिविम्बितानां कराहैः कामणि रासलीलाग ।। ८५ ॥ सरिदिति । प्रियामुखैरिति श्लोकेन व्याख्यातोऽय श्लोकः । उत्तरार्धे कियानपि विशेषः । चन्द्रस्य प्रतिबिम्बितानां प्रतिच्छायानाम् । करग्रहैः किरणानामेव हस्तानां ग्रहण । कामपि आश्चर्यभूताम् । रासलीलां उभयतो वनिताकरग्रहसा यमण्डलनृत्तविशेषरूपां लीलाम् । चकार । 'प्रतिमान प्रतिबिम्ब प्रातेमा प्रतियातना प्रतिच्छाया' इत्यमरः । अत्राम्बुराशेः मरिद्भिः सह नायकनायिकाभावव्यवहारप्रतीतेः समासोक्तिरका । चन्द्रप्रतियातनाभि सह नत्यतीतेग्न्या । करग्रहरिति श्लेषानुप्राणिता समुद्रक्षोभे रासनृतत्वाध्यवमायरूपातिशयोक्तिश्च । मुखशब्दश्लेपमूलाभेदाभ्यवसायरूपातिशयोक्तिश्च पूर्ववत् । स्पष्टमन्यत् ॥ ८५ ॥ प्रसादमाजोरुभयोरभूता मुभावनिर्धायमिथोविशेषौ । नभःस्थले शीतरुचिः सनारे सकैरवे तत्प्रतिमा च तोये ॥ ८६ ॥ प्रसादेति । प्रसादं वैमल्य भजमानयोः । उभयोः अधिकरणयोः । उभौ । अनिर्धायमिथोविशेषौ अनिर्धारणीयपरस्परभेदौ । अभूताम् । कयोरुभयोः कावुभौ , तत्राह-नभ इति । सतारे नक्षत्रसहिते। नभःस्थले। शीतरुचिः । सकैरवे । तोये । तत्प्रतिमा तस्य प्रतिबिम्बश्च । अत्र विशेष