सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८९
द्वितीयः सर्गः।

स्वर्भानौ विघ्ने शोके गुणान्तरे'। 'विधुःशशाङ्के कर्पूरे हृषीकेशे च राक्षसे' इति च विश्वः । 'गौरो गुणे सिते पीते' इति रत्नमाला ॥ ५१ ॥ अपत्यलाभं यदुवीरपल्या महोदधौ मग्नसमुत्थितेन । तद्वंशमान्येन समीक्ष्य पूर्व प्राप्तं प्रतीतेन पुरोधसेव ।। ५२ ॥ अपत्येति । यदुषु यदुवश्यषु वीर. श्रेष्ठो वसुदेवः 'वीरस्तु सुभगे श्रेष्ठे' इति विश्वः । तस्य पत्न्याः। अपत्यलाभ भविप्यन्तम् । समीक्ष्य आलोच्य। महोदधौ । मग्नसमुत्थितेन निमज्योत्थितेन । पूर्वकालेत्यादिना समासः । तद्शमान्येन यदुवशकूटस्थतया पूज्यन चन्द्रमसा। प्रतीतेन सादरेण 'प्रतीतः सादरे ख्याते' इति विश्व । पुगेधसा पुरोहितेनेव। पूर्व अपत्योत्पत्तेः प्रागेव । प्राप्त उदयाय प्रत्यायन्नम् । कुलकमागततया कुलपूज्यः पुरोहितः पुत्रोत्सव जातकर्मादि कार्रायतु स्नातस्सादर प्रागेवागच्छतीति तत्तादात्म्यमभावनारूपस्वरूपोत्प्रेक्षालङ्कारः। अपत्य लाभालोचनस्य तत्प्रा प्तिहेतुतयोत्प्रेक्षणाद्धेवृत्प्रेक्षाचेति तयोः सङ्करः । यदुशब्दस्य कूटस्थक्ष त्रिविशेषवाचिनः तद्वइयेषु लक्षणया वृत्तिः । न तु 'तद्राजस्थ बहुषु तेनैवास्त्रियाम्' इति अपत्यप्रत्ययलुक् । यदुशब्दस्य जनपदवाचित्वाभा वेन ततस्तद्राजप्रत्ययासभवात् । अत एव 'विजहुर्यादवास्तत्र विबुधस्त्री वरप्रदाः' इति तेषु यादवशब्दप्रयोगोऽयग्रे दृश्यते । यदि तस्य जन पदवाचित्व कैश्चिदभ्युपगम्यते तदा वश्येषु यदुशब्दः तद्राजप्रत्ययलुका भवति । यादवशब्दस्तु तस्येदमित्यण्प्रत्ययेनेति द्रष्टव्यम् ॥ ५२ ॥