पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
यादवाभ्युदये

ज़गता समीक्ष्या उदेष्यदिन्दुकरसंपर्कात् द्रष्टु योग्या । कृशत्व जहती अन्धकारावरणेन पूर्व कार्य प्राप्येव स्थिताद्य तत्त्यजन्ती। प्राची। दिशा । पाण्डरतां शुभ्रताम् । अयासीत् अगमत् । प्राप्तगर्भा तल्पे न्यस्तदेहा कान्त्यतिशयाजगतां दृष्टियोग्या काश्यं मुञ्चन्ती सती शुभ्रतां गच्छतीति भावः । पडिगताविति धातोः ‘पण्डेदीर्घश्च' इत्यरन् प्रत्यये दीर्घ च पाण्डरशब्दः । पाण्डुर इति उकारयुक्तस्तु सितपीतसंयोगरूपपाण्डुवाची। निशाकरणेत्यत्र प्रकृत्यादित्वात्तृतीया । अत्र प्राच्या गर्भवतीत्वरूपण गम्यत इत्येकदेशवर्तिरूपकालङ्कारः । स च पयोधितल्प इति रूपकानुप्राणितया निक्षिप्तदेहेवेत्युत्प्रेक्षया अन्धकारावरणे कार्याभेदाध्यवसायरूपातिशयोक्त्या चानुप्राणित इति सङ्करः ॥ ५० ॥ तमःप्रसङ्गेन विमुच्यमाना गौरप्रभा गोत्रभिदाभिनन्द्या । विधूदयारम्भविशेषदृश्या प्राची दिशाभासत देवकीव ॥ ५१ ॥ तम इति । तभःप्रसङ्गेन अन्धकारसपर्केण पक्षे भगवत्प्रवेशात् तमो गुणस्य पापस्य शोकस्य वा सम्पर्केण । विमुच्यमानः । गौरप्रभा पाण्डरशोभा । गोत्रभिदा अचलभिदा शक्रेण । अभिनद्या तदीयत्वात् पक्षे देवकार्यार्थ अवतरिष्यतः कृष्णस्य गर्भे भरणात् । विधोः चन्द्रस्य उदयार म्भेण विशेषदृश्या कृत्स्ननमोनिरासादतिशयेन द्रष्टु योग्या । पक्षे विधोः कृष्णस्याविर्भावारम्भादतिशयेन रमणीया। प्राची। दिशा । देवकीव । अभासत। उपमालङ्कारः। तमःप्रसङ्गेनेति विधूदयेति च श्लेषमूलका भेदाध्द्यवसायरूपातिशयोक्त्यनुप्राणित इति सङ्करः । 'तमोऽन्धकारे