पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
यादवाभ्युदये

श्वेलोपमे सन्तमसे निरस्ते सोमं सुधास्तोममिवोद्वमन्ती। दुग्धोदवेलेव दुदोह लक्ष्मी माशा मनोज्ञाममरेन्द्रमान्या ।। ५३ ॥ श्वेलेति। वेलोपमे गरलरादृशे । सन्तमसे विष्वक्तते तमसि । निरस्ते प्रथममाविर्भूतैः किरणाङ्कुरैः निराकृते सति । सुधास्तोम अमृतपुञ्जमिव । सोम उद्वमन्ती उद्गिरन्ती आविर्भावयन्तीति यावत् । अत एव गौणत्वादग्राम्यता । यथाह दण्डी । 'निष्टयूताद्रीणवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्तु ग्राम्यकक्ष्या विगाहते ॥' इति । अमरेन्द्रस्य मान्या । आशा प्राची । दुग्धोदस्य वेला मथनकालीना जलवृद्धिरिव । 'वेलाब्धितीराम्बुवृद्ध्योः' इति रत्नमाला । लक्ष्मी शोभामेव लोकमातरम् । दुदोह जनयामासेत्यर्थः । अनेकेवशब्दार्थीपमालङ्कारः । स च लक्ष्मीमिति श्लेषमूलातिशयोक्त्यनुप्राणित इति सङ्कर. ॥५३॥ तमस्समाक्रान्तिवशेन पूर्व जज्ञे निमग्नैरिव भूतधान्याम् । ततस्तुषारांशुकरावगूढै रुत्तभ्यमानैरिव शैलशृङ्गैः ।। ५४ ॥ तम इति। पूर्व चन्द्रोदयारम्भात् प्राक् । शैलशृङ्गः । तमस्समाक्रान्तिक्शेन अन्धकाराक्रमणायत्ततया । ‘वश आयत्ततायां स्यात्' इति विश्वः । भूतधात्र्यां भूमौ । निमग्नैरिव । जज्ञ जातम् । जनिधातोर्भाव लिट् । ततः चन्द्रोदयारम्भे तु। तुषारांशुकरावगूढेः चन्द्रकिरणावगुण्ठितैः ।