सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
यादवाभ्युदये

मुकुन्दगर्भा मुकुरेषु देवी नापश्यदात्मानमवाप्तभूषा । नाथविषा नन्दकदर्पणेना दिदृक्षतात्मानमदृश्यमन्यैः ॥ ३२ ॥ मुकुन्देति । मुकुन्दो गर्भः कुक्षिस्थो यस्यास्सा । देवी । अवाप्तभूषा धृतभूषणा सती । आत्मानम् । मुकुरेषु दर्पणेषु । नापश्यत् । किंतु, अन्यैः अदृश्यं आत्मानम्। नाथे गर्भगते भगवति त्वेषति दीप्यत इति नाथविषा। नन्दकेन तत्खङ्गेनैव दर्पणेन । अदिदृक्षत द्रष्टुमैच्छत् । लौकिकदर्पणेषु सकलदृश्यस्वशरीरस्य दर्शनं मदा क्रियमाणत्वादनादृत्य ‘तदात्मनो विश्वमपश्यदन्तः' इति पूर्वोक्तरीत्या स्वान्तस्स्थितविश्वान्तर्गतत्वात् परैर्द्रष्टुमशक्य स्वशरीरं सन्निहिते भगवत्खड्गव दिव्यदर्पणे द्रष्टुमैच्छदित्यर्थः । मुकुरेष्विति प्रतिबिम्बाधिकरणत्वविवक्षया सप्तमी । दर्पणेनेति तद्दर्शनकरणत्वविवक्षया तृतीया । नाथविषेति नाथोपपदान् त्विष दीप्ताविति धातोः कर्तरि किप्। नन्दकस्य सन्निहितत्वम् , भगवद्दीप्तिसनिधावप्यप्रतिहत दीप्यत इति दिव्यदर्पणत्वं च द्योायतु ताद्विशेषणम् । अदिदृक्षतेत्यत्र 'ज्ञाश्रुस्मृशां सनः' इत्यात्मनेपदम् ॥ ३२॥ सजः प्रभूता न शशाक बोडं दूरे कथा रत्नविभूषणानाम् । भविष्यति क्षोणिभरापनोदे प्रत्यायनं प्राथमिकं तदासीत् ॥ ३३ ॥ सज इति । प्रभूता बह्वीः । स्रजो माल्यानि । वोदुम् । ससाक ।