पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७७
द्वितीयः सर्गः।

दौर्बल्यादिति भावः। रत्नविभूषणानां मणिप्रधानाभरणानाम् । कथा । दूरे। तेषां ततोऽपि भारादिति भावः । भविष्यति क्षोणिभरापनोदे भगव. दवतारानन्तरभाविनि भूभारनिरासे । तत् तस्या माल्याभरणापनोदनंमेव । प्राथमिकं प्रथमकालभत्रम । प्रत्यायन ज्ञापकम् । आसीत् । यत्रावतरति श्रीकृष्णस्तत्र भारापनोदनावश्यकतायामेतत् प्रथमप्रवृत्तमुदाहरणमासीदित्यर्थः ॥ ३३ ॥ दिवौकसो देवकवंशलक्ष्मी विलोक्य तां लोकनिधानगर्भाम् ।। विभूतिमग्रेसरवेदवादा व्याचख्युरस्या विविधप्रकाराम् ॥ ३४ ॥ दिवौकस इति । दिवौकसो देवाः । देवकः कसपितुरुग्रसेनस्य भ्राता, तद्वंशलक्ष्मी संपदमिव सपद आनन्दहेतुत्वात् । तां देवकीम् । लोकनिधानं जगनिवासः कृष्णो गर्भो यस्यास्तथाभूताम् । विलोक्य । अग्रेसरवेदवादाः पुरस्कृतवेदोक्तयस्सन्तः । अस्याः विविधप्रकारां विभूति बहुप्रकारमैश्वर्यम् । व्याचख्युः व्याख्यान्ति स्म । वेदगीर्भिरस्तुवनित्यर्थः ॥ ३४ ॥ पतिस्ससत्वामपि तत्पभावा ददुःखशीलां समये भवित्रीम् । सुखैकतानामवलोक्य देवीं स्वसंपदं सूचयतीति मेने ॥ ३५ ॥ पतिरिति । तस्याः पतिः वसुदेवः । ससत्वां गर्भवतीमपि । तस्य