पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७५
द्वितीयः सर्गः।

शनैश्शनैस्तामुपचीयमाना मन्तस्स्थकृष्णामवलोकयन्तः। दर्शान्तदीप्तामिव चन्द्रलेखां चक्रुश्चकोरायितमात्मनेत्रैः ॥ ३० ॥ शनैरिति । शनैदशनैः उपचीयमानाम् । अन्तस्स्थकृष्णां अन्तर्गतदामोदराम् । चन्द्रलखापक्षेऽन्तर्गतकृष्णमृगाम् । अत एव दर्शान्ते शुक्लपक्षारम्भे दीप्तां । चन्द्रलेखामिव स्थिताम् । तां अवलोकयन्तः जनाः । आत्मनेत्रैः। चकोरायित चकोरवदाचरण अनन्यपरतया तल्लावण्यसुधापा नम् । चक्रुः । चकोरशब्दात् 'उपमानादाचारे' इति क्यडि भावे निष्ठा । उपचीयमानामिति कर्मकर्तरि प्रयोगः ॥ ३० ॥ मयि स्थिते विश्वगुरौ महीयान् ___ माभूद्भुवो भार इतीव मत्वा । सखीजनानामवलम्ब्य हस्तान् संचारलीलां शनकैश्वकार ॥ ३१ ॥ मयीति । विश्वस्य गुरी पितरि विश्वस्माद्गुरुत्वयुक्ते च कृष्णे । माय अधिकरणभूतायाम् । स्थिते सति । भुवो महीयान् भारो मा भूत् , गुरुभार वहन्त्या मम दृढपदन्यासे भुवो महान् भारः स्यात् ; स मा भूदिति मत्वेव । सखीजनानां हस्तान् अवलम्ब्य । शनकै. अद्रुतम् । सञ्चारलीला चकार । शनकरित्यत्र 'अव्ययसर्वनाम्नामकच् प्राक् टेः' इत्यकच्प्रत्ययः । अत्र दौर्बल्यप्रयुक्त सञ्चारमान्ये भूभारापत्त्यनुचिन्तनस्य हेतुत्वोत्प्रेक्षणाखेतृत्प्रेक्षालङ्कारः ॥ ३१॥