कुशोदरी तारकयाभिनन्या
केनापि धान्ना कृतवृद्धियोगा। अतीत्य कार्य क्रमशः प्रपेदे
परामभिख्यां तनुरैन्दवीव ॥ २८ ॥ कृशोदरीति । गर्भसमये, केनापि अतक्यमहिम्ना । धाम्ना भगवसेजसा। कृतवृद्धियोगा । तारकया अक्ष्णः कनीनिकया गर्भकालस्निग्धया। अभिनन्द्या श्लाघ्या। द्रष्टृणां तारकाभिरभिनन्येति वा। कृशमुदरं यस्यास्सा देवकी । क्रमशः दिवसक्रमेण । कार्य कृशत्वम् । अतीत्य । परां अभिख्या उत्कृष्टां शोभाम् । प्रपेदे प्राप। ऐन्दवी इन्दुसंबधिनी । तनुरिव । यथेन्दुकला शुक्लपक्षारम्भसमय सौरतेजसा कृतवृद्धियोगा ताराभिः परितः स्थितैनक्षत्रैरभिनन्द्या च कार्यमतीत्य क्रमेण परा शोभा प्रतिपद्यते तद्वदित्यर्थः ॥ २८ ॥ 'निगृहमन्तर्दधता निविष्टं
पद्मापरिष्कारमणिं प्रभूतम् । मध्येन काले प्रचितेन तस्या
मञ्जूषया रूप्यभुवा बभूवे ॥ २९ ॥ निगूढमिति । अन्तर्निगूढं यथा तथा ! निविष्ट स्थितम् । प्रभूत अदभ्रम् । पद्मापरिष्कारमणि लक्ष्म्याः प्रसाधनरममिति भगवति तथात्वाच्यवसायरूपातिशयोक्तिः । दधता धारयता । काले गर्भोपवयसमये। प्रचितेन पुष्टेन । तस्या मध्येन । रूप्यभुवा रजतप्रभवया । मञ्जूषया पेठिकया। बभूवे । भावे लिट् । मणिहिमञ्जूषायामभिरक्ष्यत इति भावः ॥ २९ ॥