पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७३
द्वितीयः सर्गः।

सपदि व्यधायि ‘इति व्यधिकरणपरिणामालङ्कारोदाहरणे अन्धतमसविधानकरणलेनोपात्तानां धूलीनामन्धतमसत्वे पर्यवसानम् , तथोपा. दित्साकरणत्वेनोपात्ताया विश्वगुप्तेः क्रियात्वे पर्यवसानमवसेयम् । किञ्च, कृतापराधेऽपि जने । कृपाम् । अकार्षात् करोति स्म । मुनीन्द्राणां वृत्त्या अद्धयात्मचिन्तनरूपया। मुखरीभवन्ती शब्दायमाना सती। अभूततद्भावे च्चिप्रत्ययः । मुक्तिक्षमां मोक्षोचिताम् । विद्यां परविद्याम् । वक्तु इयेष॥ २६ ॥ सतां चतुर्वर्गफलप्रसूतौ नारायणे गर्भगते नताङ्गी। अभजुरामुन्नतिमाश्रयन्ती सर्वस्य सादित्सत सर्वमेका ॥ २७ ॥ सतामिति । नताझी स्तनभारमिताङ्गी । सनां साधूनाम् । चतुर्णा धर्मार्थकाममोक्षाणां वर्ग एव फल तस्य प्रसूतिर्यस्मात्तस्मिन् महावदान्ये । नारायणे । गर्भ गते सति । अभङ्गुरां अभङ्गशीलां स्थिराम् । उन्नति चित्तोन्नति दानोत्साहरूपाम् । आश्रयन्ती । एका सा देवकी । सर्वस्य । सर्व समादित्सत एकयैव मया सर्वेऽपि सर्वाभीष्टदानेन तोषणीया इत्यैच्छदित्यर्थः । यद्यपि समानाधिकरणानां बहुव्रीहिरिष्यते । तथापि 'अवो बहुव्रीहिय॑धिकरणो जन्मायुत्तरपदः' इति वामनसूत्रात् चतुर्वर्गफलप्रसूताविति व्यधिकरणबहुव्रीहिः । यद्वा । चतुर्वर्गफलस्य प्रसूती प्रसवितरीति षष्ठीसमासोऽस्तु । 'अकर्तरि च कारके' इति चकारात् कर्तर्यपि घादयः प्रत्ययाः इत्यपि कैश्चिदभ्युपगमात् । सर्वस्येति स. बन्धसामान्यविवक्षया षष्ठी ॥२७॥