पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
यादवाभ्युदये



नामभिः इन्द्रचन्द्रादिनामभिः । आजुहाव आहूतवती । भगवत्तादात्म्यभा. वनया स्वनियोज्येष्वपि तदीयनियोज्येष्विव इन्द्रादिबुद्धिरेव तस्या बभूवेति भावः । त्रिलोकेति तद्धितार्थोत्तरपदेत्यादिना समासः ॥ २४ ॥ यदृच्छया यादवधर्मपत्नी यामाह धर्मेषु परावरेषु । अदृष्टपूर्वापरयापि वाचा प्रतिश्रुता नूनमभावि तस्याः ॥ २५ ॥ यहच्छयेति । यादवस्य धर्मपत्नी। यदृच्छया स्वेच्छया न तु शास्त्रपर्यालोचनया। 'खेच्छा यहच्छा स्वच्छन्दः स्वैरिता चति तास्समाः' इति केशवः । परावरेषु निश्रेयसाभ्युदयहेतुतया उत्कृष्टापकृष्टरूपेषु । धर्मेषु विषयेषु । यो आह यां वाच जगाद । तस्याः वाचः । अदृष्टपूर्वापरया अनालक्षितपूर्वीपरकोट्या । वाचा वेदवाचापि । नूनम् । प्रतिश्रुता प्रतिध्वनिमा । अभावि भूतम् । भावे लुद्द । तस्या वाक् धर्मरहस्यनिष्कर्षशक्त्या वेदानामप्युपजीव्यासीदित्यर्थः। आहेत्युवाचार्थ विभक्तिप्रतिरूपकमव्ययमिति न स्मशब्दापेक्षा ॥ २५ ॥ क्रियामुपादित्सत विश्वगुप्त्या कृतापराधेऽपि कृपामकार्षीत् । मुनीन्द्रनृत्या मुखरीभवन्ती मुक्तिक्षमा वक्तुमियेष विद्याम् ॥ २६ ॥ क्रियामिति । विश्वगुप्त्या लोकरक्षणेन । कियो उपादित्सत विश्वगुप्तिरूपामेव क्रियामुपादातुमैच्छदित्यर्थः । यथा 'धूलीनिरन्धतमस