पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१
द्वितीयः सर्गः।

गमेरन्येष्वपि दृश्यत इति डः । अतक्य॑महिम्रो भगवतस्सङ्कल्पेन कृते कानुपपत्तिरिति भावः ॥ २२ ॥ सुरासुराधीश्वरमौलिघाता• द्विशीर्णजाम्बूनदवत्रम् आलक्ष्यसंतोषमलक्ष्यमन्यै रनीकनेतारमवैक्षतारात् ॥ २३ ॥ सुरेति । सुरासुराधीश्वरमौलिघातात् भगवत्सेवार्थ द्वारि स. मागतानां देवासुरप्रधानानां किरीटेषु ताडनात् । 'मौलिः किरीटे धम्मिले' इति विश्वः । विशीर्णजाम्बूनदवेत्रशृङ्ग जर्जरीभूतकनकवेत्राग्रम् । आलक्ष्यसन्तोषं अभिव्यक्तानन्दम् । अन्यैः। अलक्ष्यं अदृश्यम् । अनीकनंतारं सेनान्य विष्वक्सेनम् । आरात् समीप । अवैक्षत । जाम्बूनदस्य वेत्रमिति षष्ठीसमासः । प्रकृतिविकारभावस्य षष्ठयैव प्रतीनेः ॥ २३ ॥ त्रिलोकमाङ्गल्यनिधेत्रिवेद्याः संजीवनी वाचमुदीरयन्ती । नियोगयोग्याननघप्रसादा नाकौकस नामभिराजुहाव ॥ २४ ॥ त्रिलोकेति । त्रयाणां लोकानां माङ्गल्यनिधेः श्रेयोनिधानभूतायाः । त्रयाणां वेदानां समाहारस्य त्रिवेद्याः । सजीवनी सजीवनकारिणी वेदाधरहस्यगोचरतया तत्प्राणप्रदाम् । वाचम् । उदीरयन्ती। अनघप्रसादा अवितांनुग्रहा। सा । नियोगयोग्यान् नियोज्यान् । नाकौकसां देवानाम् । THE KUPPUSWW SASTRI RESEARCTITUTE