पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
यादवाभ्युदये


लसा मन्धरा वा। जितश्रमा श्रमजिता वेति । जनैः । शशके। कर्मणि लिट् । अत्रापि ग्लानिः प्रभुशक्तिमन्धरता चेति द्वयमपि प्रतीयते ॥ २० ॥ शेषे शयानां गरुडेन यान्ती पद्मे निषण्णामधिरत्नपीठम् । हयाननराश्रितवन्दिकृत्यां स्वामाकृति स्वमदृशा ददर्श ॥ २१ ॥ शेष इति। स्वां आकृतिं । शेषे अनन्ते। शयानाम्। गरुडेन यान्ताम् । अधिरत्नपीठ रत्नपीटोपरि । विभक्त्यर्थेऽव्ययीभावः । पद्मे निषण्णाम् । हया ननैः किंपुरुषैः । आश्रितवन्दिकृत्यां अवलम्बितस्तुतिपाठककृत्यां च । स्वाद. शा स्वप्नरूपया दृष्टया । ददर्श ॥ २१ ॥ अन्तःस्थितं यस्य विभोरशेष जगनिवासं दधती तमन्तः । तदात्मनो विश्वमपश्यदन्त स्तकांतिगं तादृशमद्भुतं नः ॥ २२ ॥ अन्तरिति । अशेष विश्वम् । विभोः अपरिच्छिन्नस्य । यस्थ अन्तः जठरे । स्थितम् ।. जगनिवासम् । त अन्तर्दधती । देवकी। तत् कृष्णस्य जठरे स्थितम् विश्वम् । आत्मनः स्वस्याः । अन्तरपश्यत् । नन्वपरिच्छिन्नस्य कथमस्या उदरे अवस्थानम् । कथं च तदुदरे स्थितस्य स्वोदरे दर्शनं तत्राह-तर्कातिगमिति । तादृशं भगवत्साल्पकृतम् । अद्भुतं.आश्चर्यम् । नः अस्माकम् । तर्कातिगं तर्कमतिकान्तम् ।