पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६९
द्वितीयः सर्गः।

वर्तमाना। भावितपारमेष्ठथा अनुसंहितपरमेश्वरचरिता च सती। भद्रासन सुखासनम्। अध्यास्त अध्यतिष्ठत् । 'अधिशीङ् स्थासां कर्म' इत्यासनस्य कर्मत्वम् । ‘भद्रं कल्याणसौख्ययोः' इति यादवः । अत्र दुर्वहगर्भवहनात आलस्येन निद्राभावेऽपि शयनम् , गमनेषु मन्दोद्यमत्व ग्लान्या, परिजनेष्वप्यरतिः, आर्तिसमयोचित भगवरितानुचिन्तनम् , सञ्चारासहिष्णुतया सुखासनेऽवस्थान च दर्शितम् । अनेन भगवदावेशकृत तच्चरितानुकरणमपि दर्शितम् । पूर्वार्धे शेषशयनत्रिविक्रमचरितानुकरणप्रतीतेः, उत्तरार्धे च भावितपारमेष्ठया प्राप्तपरमेश्वरभावा। अत एव लोकानवधीरयन्ती जयन्ती च । भद्रासन राजासनमध्यास्तेति परमैश्वर्यानुकरणप्रतीतेश्च । परमे पदे तिष्ठतीति परमेष्ठी । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । प्रे स्थ इत्यनुवर्तमाने परमे किदित्यौणादिक इनिः। अम्बाम्बेति सूत्रस्थेन स्थास्थिन् स्थूणामिति वार्तिकेन षत्वम् । तस्य कर्म प्रथमार्थे, द्वितीयार्थे भावश्च पारमेष्ठयम् । ब्राह्मणादित्वात् कर्मणि भावे च ष्यत्रत्ययः । भूधातोः भुवोऽवकल्कन इति चिन्तनार्थे भू प्राप्ताविति प्राप्त्यर्थे च णिजनुशासनात् अर्थद्वयेऽपि भावितशब्दस्य साधुता ॥ १९ ॥ परिक्रमप्रेक्षितभाषिताये रन्याशैराप्तविभावनीयैः। मदोपपन्ना मदलालसा वा जितश्रमा वेति जनैश्शशङ्के ॥२०॥ परिक्रमेति। अन्यादृशैः पूर्वविलक्षणप्रकारैः । आप्तविभावनीयः अत्यन्तान्तरङ्गावगन्तव्यैः । परिक्रमप्रेक्षितभाषिताद्यैः सञ्चरणावलोकनसभाषणादिभिः । मदोपपना मदकरद्रव्यसेवाकृतेन मदेन युक्ता । मदला.