पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
यादवाभ्युदये


नत्या। वयस्यया स्निग्धया। अनुयुक्ता पृष्टा । नाथा स्वामिनी देवकी । न किचित् इत्येव जगाद किमपि नापेक्षितमित्येव गदितवती ॥ १७॥ अनादरे देवि सखीजनानां - दया न दूयेत कथं तवेति । उपहरे सल्लपिता मनोह रालोकनरुत्तरमाचचक्षे ॥ १८ ॥ अनादर इति । हे देवि । सखीजनानां अनादरे । तव दया साजनविषया। कथम्। न दूयेत न परित'येत ता येतेवत्यर्थ. । अतो दयापरतत्रया त्वया पूर्ववत् सल्लापादिना सख्यः सम्माननीया इति भावः । इति उपह्वरे रहसि । सल्लपिता सखीभिस्सभाषिता सती । मनोज्ञैः स्निग्धैः आलोकनैः । उत्तरम् । आचचक्षे उक्तवती । अखिलजगत्प्रभोरावेशगत स्वयमपि प्रभुशक्तिमाश्रित्य तादृशीमेव शैलीमन्ववर्ततेत्यर्थः। अनेन गर्भप्रयुक्तं दौर्बल्य दर्शितम् ॥ १८॥ अशेत सा काममजातनिद्रा मातुं प्रवृत्तेव पदानि चक्रे । अध्यास्त लोकानवधीरयन्ती भद्रासनं भावितपारमेष्ट्या ॥ १९ ॥ अशेतेति। सा देवकी। अजातनिद्रापि । कामं अत्यर्थम् । अशेत । मातु प्रवृत्तेव इयन्ति पदानीति सञ्चारभूमि परिमातुं प्रवृत्तेव । पदानि चरणविन्यासान् । चक्रे । लोकान् परिसरवर्तिजनान् । अवधीरयन्ती अनादृत्य